________________
-
आवश्यक-मूलसूत्रम् -२- २/३ क्त्यनुगमस्तुसूत्रेसतिभवति, सूत्रंचसूत्रानुगमइतिस चावसरप्राप्त एव, युगपञ्चसूत्रादयो व्रजन्ति,
“सुत्तं सुत्तानुगमो सुत्तालावयकओय निक्खेवो ।
सुत्तप्फासियनित्ति नया य समगंतु वच्चंति ।।" विषयविभागः पुनरमीषामयं वेदितव्यः
"होइ कयत्थो वोत्तुंसपयच्छेयं सुयं सुयानुगमो । सुत्तालावयनासो नामाइन्नासविनिओगं ।।" सुत्तप्फासियनिनुत्तिनिओगो सेसओ पयत्थाई ।
पायं सोच्चिय नेगमनयाइमयगोयरो भणिओ ।। अत्राऽऽक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरुपिता एव नेह वितन्यत इत्यलं विस्तरेण, तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदं सूत्रम्मू. (३)
लोगस्सुजोयगरे, धम्मतित्थयरे जिणे ।
अरिहंते कित्तइस्सं, चउवीसंपि केवली ।। वृ- तल्लक्षणं चेदं-'संहिता चे' त्यादि पूर्ववत्, तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति, सा चेयं- 'लोगस्सुजोयगरे' इत्यादि पाठः । अधुनापदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थः-लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ?-उद्योतकरणशीला उद्योतकरास्तान, केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानंधारयतीतिधर्मः, उक्तंच-“दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्थतेऽनेनेति तीर्थं धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थं तत्करणशीलाः धर्मतीर्थकरास्तान्, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजे-तृत्वाज्जिनास्तान्, तथा अशोकाद्यष्टमहाप्रातिहादिरुपां पूजामर्हन्तीत्यर्हन्तस्तानर्हतः, कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दोभावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति केवलिनस्तान केवलित इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाजि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सुत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद, उक्तंच
“अक्खलियसंहियाई वक्खाणचउक्कए दरिसियंमि ।
__ सुत्तप्फासियनिज्जुत्तिवित्थरस्थो इमो होइ ।।'' चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरुपणायाऽऽहनि. (१०५७) नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ६ भावे अ७ ।
पज्जवलोगे अ ८ तहा अट्ठविहो लोगनिक्खेवो ।। वृ- नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः ।। व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराह
[भा.१९५] जीवमजीवे रुवमरुवी सपएसमप्पएसे अ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org