________________
अध्ययनं -२- [नि. १०५७]
जाणाहि दव्वलोगं निच्चमनिच्चं चजंदव्वं ।। वृ- जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ-रुप्यरुपिभेदाद्, आह च-'रुप्यरुपिणावि'ति, तत्रानादिकर्मसन्तानपरिगतारुपिणः-संसारिणः, अरुपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरुपिणो धर्माधर्माकाशास्तिकायाः रुपिणस्तु परमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह-'सप्रदेशाप्रदेशाविति, तत्रसामान्यविशेषरुपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षतेजीवः किल कालादेशेन नियमात् सप्रदेशः लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशी वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा-द्रव्यतः परमाणुरप्रदेशो द्वयणुकादयः सप्रदेशाः, क्षेत्रत एकप्रदेशावगाढोऽप्रदेशो द्वयादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यद् द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः ।। साम्प्रतं जीवाजीवयोर्नित्यानित्यताह[भा.१९६] गई १ सिद्धा २ भविआया ३ अभविअ४-१ पुगल १ अनागयद्धा य २ ।
तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ ट्ठिई चउहा ।। वृ- अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाद्यपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । अधुना क्षेत्रलोकः
आगासस्स पएसा उढुंच अहे अतिरियलोए अ ।
जाणाहि खित्तलोगं अनंत जिनदेसिअंसम्मं ।। वृ- आकाशस्य प्रदेशाः-प्रकृष्टा देशाः प्रदेशास्तान् 'ऊर्चे च' इत्यूर्ध्वलोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोकेच, किं?-जानीहि क्षेत्रलोकं,क्षेत्रमेव लोकः क्षेत्रलोकइतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम, अनुस्वारलोपोऽत्रद्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यक' शोभनेन विधिनेति गाथार्थः ।। साम्प्रतं काललोकप्रतिपादनायाह[भा.१९८] समयावलिअमुहुत्ता दिवसमहोरत्तपक्खमासा य ।
संवच्छरजुगपलिआ सागरओसप्पिपरिअट्टा ।। वृ- इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्येयसमयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः द्वादशमासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्योपममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, 'परावर्त' पुद्गलपरावर्तः, स चानन्तोत्सर्पिण्यवसप्रिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः ।। उक्तः काललोकः,लोकयोजनापूर्ववद् । अधुना भावलोकमभिधित्सुराह
[भा.१९९] नेरइअदेवमनुआ तिरिक्खजोणीगया य जे सत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org