________________
आवश्यक - मूलसूत्रम् - २- २/३ तंमि भवे वट्टंता भवलोगं तं विआणाहि ।।
वृ- नारकदेवमनुष्यास्तथा तिर्यग्योनिगताश्च ये 'सत्त्वाः' प्राणिनः 'तंमि' त्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि, लोकयोजना पूर्ववदिति गाथार्थः । । साम्प्रतं भावलोकमुपदर्शयति
[भा. २००] ओदइए १ ओवसमिए २ खइए अ ३ तहा खओवसमिए अ ४ । परिणामि ५ सन्निवाए अ ६ छव्विहो भावलोगो उ ।।
वृ- उदयेन निवृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निवृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यं ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च एवं षड्विधो भावलोकस्तु तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति, उक्तं च
"ओदइअखओवसमे परिणामेक्वेक्को (कु) गइचउक्केऽवि । खयजोगेणविचउरो तदभावे उवसमेणंपि ।। उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेव पन्नरस ।। "त्ति तिव्वो रागो अदोसो अ, उइन्ना जस्स जंतुणो । जाहि भावलअं, अनंतजिनदेसिअं सम्मं ।।
८
[भा. २०१]
वृ- 'तीव्र' उत्कटः रागश्च द्वेषश्च, तत्राभिष्वङ्गलक्षमो रागः अप्रीतिलक्षणो द्वेष इति, एतावुदीर्णी 'यस्य जन्तोः' यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाज्जानीहि भावलोकमनन्तजिनदेशितम्-एकवाक्यतयाऽनन्तजिनकथितं 'सम्यग् ' इति क्रियाविशेषणम्, अयं गाथार्थः । । साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह
[भा.२०२ ] दव्वगुण १ खित्तपज्जव २ भवानुभावे अ३भावपरिणामे ४ । जाण चउव्विहमेअं, पज्जवलोगं समासेणं ।।
भवस्य
वृ- द्रव्यस्य गुणाः-रुपादयः, तथा क्षेत्रस्य पर्यायाः अगुरुलघवः भरतादिभेदा एव चान्ये, ' चनारकादेरनुभावः- तीव्रतमदुःखादिः, यथोक्तम्
"अच्छिनिमिलीयमेत्तं नत्थि सुहं दुक्खमेव अनुबंधं । नए नेरइआणं अहोनिसिं पञ्च्चमाणाणं ।। असुभा उव्वियणिज्जा सद्दरसा रुवगंधफासा य । नए नेरइआणं दुक्कयकम्मोवलित्ताणं ।।" इत्यादि,
एवं शेषानुभावोऽपि वाच्यः तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहि ' अवबुध्यस्व चतुर्विधमेनमोघतः पर्यायलोकं 'समासेन' संक्षेपेणेति गाथार्थः । तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेनाहवण्णरसगंधसंठाणफासट्ठाणगइवन्नभेए अ । परिणामे अ बहुविहे पज्जवलोगं विआणादि ।।
[भा. २०३]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org