SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -२- [नि. १०५७] वृ- वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद् रसादिभेदपरिग्रहः, अयमत्र भावार्थः-वर्णादयः सभेदा गृह्यन्ते, तत्रवर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पञ्चधा, गन्धः सुरभिरित्यादिभेदाह द्विधा, संस्थानं परिमण्डलादिभेदात्पञ्चधैव, स्पर्शः कर्कशादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शवद्गतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादिनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्गहार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्वयाख्यातं । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारं, शेषं द्वारद्वयं स्वयमेव भावनीयं, तच्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम्-परिणामांश्च बहुविधान् जीवाजीवभावगोचरान्, किं?-पर्यायलोकं विजानीहि इति गाथार्थः ।। अक्षरयोजना पूर्ववदिति साम्प्रतं लोकपर्यायशब्दान्निरुपयन्नाहनि.(१०५८) आलुक्कइअपल्लुक्कइ लुक्कइसंलुक्कई अएगट्ठा । लोगो अट्ठविहो खलु तेनेसो वुच्चइ लोगो ।। वृ-आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम्, अत एवाऽऽह-तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि भावनीयं, गाथार्थः ।। व्याख्यातो लोकः, इदानीमुद्योत उच्यते, तत्राहनि. (१०५९) दुविहो खलु उजोओ नायव्वो दव्वभावसंजुत्तो । अगी दव्वुजोओचंदो सूरो मणी विज्जू ।। वृ- 'द्विविधः' द्विप्रकारः खलूद्योतः, खलुशब्दो मूलभेदापेक्षया न तु व्यक्त्यपेक्षयेति विशेषणार्थः, उद्योत्यते प्रकाश्यतेऽनेनेत्युद्योतः, 'ज्ञातव्यः' विज्ञेयो, द्रव्यभावसंयुक्त इति-द्रव्योद्योतो भावोद्योतश्चेत्यर्थः, तत्राग्निर्द्रव्योद्योतः घटाद्युद्योतनेऽपि तद्वतायाः सम्यक्प्रतिपत्तेर भावात् सकलवस्तुधर्मानुद्योतनाच्च, न हि धर्मास्तिकायादयः सदसन्नित्यानित्याद्यनन्तधर्मात्मकस्य च वस्तुनः, सर्व एव धर्मा अग्निना उद्योत्यन्त इत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, ततश्चस्थितमिदम्-अग्निद्रव्योद्योतः, तथा चन्द्रः सूर्योमणिविद्युदिति, तत्रमणिः-चन्द्रकान्तादिलक्षण परिगृह्यत इतिगाथार्थः ।। नि. (१०६०) नाणंभावुजोओ जह भणियं सव्वभावदंसीहिं । तस्स उवओगकरणेभावुज्जोअंविआणाहि ।। वृ- ज्ञायतेऽनेन यथावस्थितं वस्त्विति ज्ञानं तज्नं भावोद्योतः, घटाघुद्योतनेन तद्गतायाः सम्यक्प्रतिपत्तेर्विश्वप्रतिपत्तेश्च भावात्, तस्य तदात्मकत्वादेवेति भावना, एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तम्, अत आह-यथा भणितं सर्वभावदर्शिभिस्तथा यज्ज्ञानं, सम्यग्ज्ञानमित्यर्थः, पाठान्तरं वा 'यद्भणितं सर्वभावदर्शिभिरिति, तदपि नाविशेषणोद्योतः, किन्तु तस्यज्ञानस्योपयोगकरणे सति, किं ?, भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुतः ज्ञानत्वसिद्धेरिति गाथार्थः ।। इत्थमुद्योतस्वरुपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानुपदर्शयन्नाह नि. (१०६१) लोगस्सुजोअगरा दव्युञ्जोएण नहु जिना हुंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy