SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १० आवश्यक-मूलसूत्रम् -२- २/३ भावुजोअगरा पुन हुंति जिनवरा चउव्वीसं ।। वृ- लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, तीर्थकरनामानुकर्मोदयतोऽतुलसत्त्वार्थकरणात् भावोद्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनःशब्दो विशेषणार्थः, आत्मानमेवाधिकृत्योद्योतकरास्तथा लोकप्रकाशकवचनप्रदीपापेक्षया च शेषभव्यविशेषानधिकृत्यैवेति, अत एवोक्तं भवन्ति' न तु भवन्त्येव, कांश्चन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासम्भवादिति, चतुर्विंशतिग्रहणं चाधिकृतावसर्पिणीगततीर्थकरसङ्ख्या प्रतिपादनार्थमिति गाथार्थः ।। उद्योताधिकार एव द्रव्योद्योतभावोद्योतयोर्विशेषप्रतिपादनायाऽऽहनि.(१०६२) दव्वुज्जोउज्जोओ पगासई परिमियंमि खित्तंमि । भावुज्जोउज्जोओ लोगालोगं पगासेई ।। वृ-द्रव्योद्योतोद्योतः-द्रव्योद्योतप्रकाश उक्तलक्षणएवेत्यर्थः, पुद्गलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच्च प्रकाशयति प्रभासते वा परिभिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्त्वध्याह्रियते, यदा तु प्रभासते तदा स एव दीप्यत इति गृह्यते, ‘भावोद्योतोद्योतो लोकालोकं प्रकाशयति' प्रकटार्थम् अयं गाथार्थः ।। उक्त उद्योतः, साम्प्रतं करमवसरप्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहायेहधर्मं प्रतिपादयन्नाहनि.(१०६३) दुह दव्वभावधम्मो दव्वे दव्वस्स दव्वमेवऽहवा । तित्ताइसभावो वा गम्माइत्थी, कुलिंगो वा ।। वृ-धर्मो द्विविधः-द्रव्यधर्मोभावधर्मश्च, 'दव्वे दव्वस्स दव्वमेवऽहव'त्तिद्रव्य इति द्वारपरामर्शः, द्रव्यस्येति, द्रव्यस्य धर्मो द्रव्यधर्मः, अनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानमित्यर्थः, इहानुपयुक्तो द्रव्यमुच्यते, द्रव्यमेव वाधर्मोद्रव्यधर्मः धर्मास्तिकायः, तित्ताइसहावोवत्ति तिक्तादि द्रव्यधर्म इति, 'गम्माइत्थी कुलिंगो वत्ति गम्यादिधर्मः 'स्त्री'ति स्त्रीविषयः, केषाश्चिमातुलदुहिता गम्या केषाञ्चिदगम्येत्यादि, तथा 'कुलिङ्गो वा' कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः ।। नि. (१०६४) दुह होइभावधम्मो सुअचरणे आ सुअंभि सज्झाओ । चरणंमि समणधम्मो खंतीमाई भवे दसहा ।। वृ- द्वेधा भवति भावधर्मः, 'सुअचरणे य'त्ति श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवतिश्रुतधर्मश्चारित्रधर्मश्च, 'सुअंभिसज्झाओ'त्ति श्रुतइति द्वारपरामर्शः, स्वाध्यायो-वाचनादिः श्रुतधर्म इत्यर्थः, 'चरणमि समणधम्मोखंतीमाईभवे दसह'त्तितत्रचरण इति परामर्शः,श्रमणधर्मोदशविधः क्षान्त्यादिश्चरणधर्म इति गाथार्थः ।। उक्तो धर्मः, साम्प्रतं तीर्थनिरुपणायाहनि.(१०६५) नामं ठवणातित्थं दव्वत्तित्थं च भावतित्थंच । एकेकंपि अइत्तोऽनेगविहं होइनायव्वं ।। वृ-निगदसिद्धा ।। नवरं द्रव्यतीर्थ व्याचिख्यासुरिदमाहनि.(१०६६) दाहोवसमंतण्हाइछेअणं मलपवाहनं चेव । तिहि अत्थेहि निउत्तं तम्हा तं दव्वओ तित्थं ।। वृ-इह द्रव्यतीर्थं मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसवात्, तथा चाह'दाहोपशममिति तत्र दाहो-बाह्यसन्तापस्तस्योपशमो यस्मिन् तद्दाहोपशमनं, 'तण्हाइछेअणं'ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy