Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ ११ अध्ययनं -२- [नि. १०६६] तृषः-पिपासायाश्छेदनं, जलसङ्घातेन तदपनयनात्, ‘मलप्रवाहणं चैवे'त्यत्र मलः बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणं, जलेनैव तत्प्रवाहणात्, ततः प्रक्षालनादिति भावः, एवं त्रिभिरथैः करणभूतैस्त्रिषु वाऽर्थेषु नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररुपितं द्वितीये तु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थे, मोक्षासाधकत्वादिति गाथार्थः ।। भावतीर्थमधिकृत्याहनि.(१०६७) कोहमि उनिगहिए दाहस्स पसमणं हवइ तत्थं । लोहंमि उनिग्गहिए तण्हाएछेअणं होइ ।। वृ-इहभावतीर्थंक्रोधादिनिग्रहसमर्थं प्रवचनमेव गृह्यते, तथा चाह-क्रोध एव निगृहीते 'दाहस्य' द्वेषानलजातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितं, नान्यथा, लोभ एव निगृहीते सति, किं ?'तण्हाएछेअणं होइ'त्ति तृषः-अभिष्वङ्गलक्षणायाः किं ?- 'छेदनं भवति' व्यपगमो भवतीति । नि.(१०६८) अट्ठविहं कम्मरयं बहएहि भवेहिं संचिअंजम्हा । तवसंजमेणधुव्वइतम्हातंभावओ तित्थं ।। वृ- 'अष्टविधम्' अष्टप्रकारं, किं ? - ‘कर्मरजः' कर्मैव जीवानुरञ्जनाद्रजः कर्मरज इति, बहुभिर्भवैः सञ्चितं यस्मात्तपसंयमेन 'धाव्यते' शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थ, मोक्षसाधनत्वादिति गाथार्थः ।। नि. (१०६९) दंसणनाणचरित्तेसु निउत्तं जिनवरेहि सव्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तंभावओ तित्थं ।। वृ-दर्शनज्ञानचारित्रेषु नियुक्तं' नियोजितं 'जिनवरैः' तीर्थकृभिः ‘सर्वे' ऋषभादिभिरिति, यस्माच्चैत्थम्मूतेषु त्रिष्वर्थेषु नियुक्तं तस्मात्तत्प्रवचनंभावतः तीर्थ, मोक्षसाधकत्वादितिगाथार्थः ।। उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथानि. (१०७०) नामकरो १ ठवणकरो २ दव्वकरो ३ खित्त ४ काल ५ भावकरो ६ । ___ एसो खलु करगस्स उ निक्खेवो छव्विहो होइ ।। वृ-निगदसिद्धा ।। नवरं द्रव्यकरमभिधित्सुराहनि. (१०७१) गोमहिसुट्टिपसूणं छगलीणंपिअकरा मुणेयव्वा । तत्तो अतणपलाले भुसकटुंगारपलले य ।। नि.(१०७२) सिउबरजंघाए बलिवद्दकए घए अचम्मे अ । चुल्लगकरे अ भणिए अट्ठारसमाकरुप्पत्ती ।। वृ-गोकरस्तथाभूतमेव तद्वारेण वारुपकाणामित्येवं सर्वत्र भावना कार्येति, नवरं शीताकरोभोगः क्षेत्रपरिमाणोद्भव इति चान्ये, उत्पत्तिकरस्तु स्वकल्पनाशिल्पनिर्मितः शतरुपकादिः, शेषं प्रकटार्थमिति गाथाद्वयार्थः । । उक्तो द्रव्यकर इति, क्षेत्रकराद्यभिधित्सुराहनि.(१०७३) खित्तंमिजंमि खित्ते काले जो जंमिहोइ कालंमि । दुविहो अहोइ भावे पसत्थु तह अप्पसत्थो अ ।। वृ-क्षेत्र इति द्वारपरामर्शः, एतदुक्तं भवति-क्षेत्रकरो यो यस्मिन् क्षेत्रे शुल्कादि । काल इति द्वारपरामर्श एव, कालकरो यो यस्मिन् भवति काले कुटिकादानादिः, द्विविधश्च भवति भावे, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 356