Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ १२ आवश्यक-मूलसूत्रम् -२- २/३ द्वैविध्यमेव दर्शयति-प्रशस्तस्तथाऽप्रशस्तश्चैति गाथार्थः ।। तत्राप्रशस्तपरित्यागेन प्रशस्तसद्भा-वादप्रशस्तमेवादावभिधित्सुराहनि.(१०७४) कलहकरो डमरकरो असमाहिकरो अनिव्वुइकरो अ । एसो उ अप्पसत्थो एवमाई मुणेयव्यो ।। वृ- आह-उक्तप्रयोजनसद्भावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथमस्थाने कार्य इति ज्ञापनार्थ, तंत्र कलहो-भण्डनं, ततश्चाप्रशस्तः कोपाद्यौदयिकभावतः, तत्करणशीलः कलहकर इति, एवं डमरादिष्वपि भावनीयं, नवरं वाचिकः कलहः, कायवाङ्मनोभिस्ताडनादिगहनं डमरं, समाधान-समाधिः स्वास्थ्यं न समाधिरसमाधिःअस्वास्थ्यनिबन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेणानिवृतिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षयानतुव्यक्त्यपेक्षयेति, अतएवाह-एवमादिविज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इतिगाथार्थः । । साम्प्रतंप्रशस्तभावकरमभिधातुकाम आहनि.(१०७५) अत्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो अ । अभयकर निव्वुइकरो कुलगर तित्थंकरंतकरो।। वृ- तत्रौघत एव विद्यादिरर्थः, उक्तं च-'विद्याऽपूर्वे धनार्जनं शुभमर्थ' इति, ततश्च प्रशस्त विचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितंपरिणामपथ्यं कुशलानुबन्धि यत्किञ्चित्, कीर्तिः-दानपुण्यफला, गुणाः-ज्ञानादयः, यशःपराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वा संसारस्येति गाथार्थः ।। उक्तोभावकरः, अधुना जिनादिप्रतिपादनायाऽऽहनि.(१०७६) जियकोहमानमाया जियलोहा तेन ते जिना हुंति । अरिणो हतारयं हंता अरिहंता तेन वुच्चंति ।। वृ-जितक्रोधमानमाया जितलोभायेन कारणेन तेन तेभगवन्तः, किं?-जिनाभवन्ति, 'अरिणो हंता रयं हते' त्यादिगाथादलं यथा नमस्कारनियुक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ।। कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहनि. (१०७७) कित्तेमि कित्तणिज्जे सदेवमनुआसुरस्स लोगस्स । सणनाणचरिते तवविनओदंसिओ जेहिं ।। वृ-कीर्तयिष्यामि नामभिगुणैश्च, किम्मूतान् ?-कीर्तनीयान्, स्तवार्दानित्यर्थः, कस्येत्यत्राहसदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येतिभावः, गुणानुपदर्शयति-दर्शनज्ञानचारित्राणि' मोक्षहेतुनि (निति), तथा 'तपोविनयः' दर्शितो यैः, तत्र तप एव कर्मविनयाद् विनयः, इति गाथार्थः ।। नि.(१०७८) चउवीसंति य संखा उसभाईआ उभण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ।। वृ- चतुर्विंशतिरिति सङ्ख्या , ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः एरवतमहाविदेहेषु ये तद्रहोऽपिवेदितव्य इतिगाथार्थः ।। नि.(१०७९) कसिणं केवलकप्पं लोगंजाणंति तह य पासंति । केवलचरित्तनाणी तम्हा ते केवली हुंति ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 356