________________
१२
आवश्यक-मूलसूत्रम् -२- २/३ द्वैविध्यमेव दर्शयति-प्रशस्तस्तथाऽप्रशस्तश्चैति गाथार्थः ।।
तत्राप्रशस्तपरित्यागेन प्रशस्तसद्भा-वादप्रशस्तमेवादावभिधित्सुराहनि.(१०७४) कलहकरो डमरकरो असमाहिकरो अनिव्वुइकरो अ ।
एसो उ अप्पसत्थो एवमाई मुणेयव्यो ।। वृ- आह-उक्तप्रयोजनसद्भावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथमस्थाने कार्य इति ज्ञापनार्थ, तंत्र कलहो-भण्डनं, ततश्चाप्रशस्तः कोपाद्यौदयिकभावतः, तत्करणशीलः कलहकर इति, एवं डमरादिष्वपि भावनीयं, नवरं वाचिकः कलहः, कायवाङ्मनोभिस्ताडनादिगहनं डमरं, समाधान-समाधिः स्वास्थ्यं न समाधिरसमाधिःअस्वास्थ्यनिबन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेणानिवृतिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षयानतुव्यक्त्यपेक्षयेति, अतएवाह-एवमादिविज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इतिगाथार्थः । । साम्प्रतंप्रशस्तभावकरमभिधातुकाम आहनि.(१०७५) अत्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो अ ।
अभयकर निव्वुइकरो कुलगर तित्थंकरंतकरो।। वृ- तत्रौघत एव विद्यादिरर्थः, उक्तं च-'विद्याऽपूर्वे धनार्जनं शुभमर्थ' इति, ततश्च प्रशस्त विचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितंपरिणामपथ्यं कुशलानुबन्धि यत्किञ्चित्, कीर्तिः-दानपुण्यफला, गुणाः-ज्ञानादयः, यशःपराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वा संसारस्येति गाथार्थः ।। उक्तोभावकरः, अधुना जिनादिप्रतिपादनायाऽऽहनि.(१०७६) जियकोहमानमाया जियलोहा तेन ते जिना हुंति ।
अरिणो हतारयं हंता अरिहंता तेन वुच्चंति ।। वृ-जितक्रोधमानमाया जितलोभायेन कारणेन तेन तेभगवन्तः, किं?-जिनाभवन्ति, 'अरिणो हंता रयं हते' त्यादिगाथादलं यथा नमस्कारनियुक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ।।
कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहनि. (१०७७) कित्तेमि कित्तणिज्जे सदेवमनुआसुरस्स लोगस्स ।
सणनाणचरिते तवविनओदंसिओ जेहिं ।। वृ-कीर्तयिष्यामि नामभिगुणैश्च, किम्मूतान् ?-कीर्तनीयान्, स्तवार्दानित्यर्थः, कस्येत्यत्राहसदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येतिभावः, गुणानुपदर्शयति-दर्शनज्ञानचारित्राणि' मोक्षहेतुनि (निति), तथा 'तपोविनयः' दर्शितो यैः, तत्र तप एव कर्मविनयाद् विनयः, इति गाथार्थः ।। नि.(१०७८) चउवीसंति य संखा उसभाईआ उभण्णमाणा उ ।
अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ।। वृ- चतुर्विंशतिरिति सङ्ख्या , ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः एरवतमहाविदेहेषु ये तद्रहोऽपिवेदितव्य इतिगाथार्थः ।। नि.(१०७९) कसिणं केवलकप्पं लोगंजाणंति तह य पासंति ।
केवलचरित्तनाणी तम्हा ते केवली हुंति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org