________________
अध्ययनं - २ - [नि. १०७९]
१३
वृ- 'कृत्स्नं' सम्पूर्णे 'केवलकल्पं ' केवलोपमम्, इह कल्पशब्द औपभ्यै गृह्यते, उक्तं च"सामर्थ्ये वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ।। " ‘लोकं’ पञ्चास्तिकायात्मकं जानन्ति विशेषरूपतया, तथैव सम्पूर्णभेव, चशब्दस्यावधारणार्थत्वात् पश्यन्तिसामान्यरुपतया, इह च ज्ञानदर्शनयोः सम्पूर्णलोकविषयत्वे च वहु वक्तव्यं तत्तुं नोच्यते ग्रन्थविस्तरभयादिति, नवरं
“निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वयम् ।।”
इत्यनया दिशा स्वयमेवाभ्यूह्यगिति, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यत इति केवलिन इति कृत्वा । आह - इहाकाण्ड एव केवलचारित्रिण इति किमर्थम् ?, उच्यते, केवलचारित्रप्राप्तिपूर्विकैव नियमतः केवलज्ञानावाप्तिरिति न्यायप्रदर्शनेन नेदमकाण्डमिति गाथार्थः । । व्याख्याता तावल्लोकस्येत्यादिरुपा प्रथमसूत्रगाथेति, अत्रैव चालनाप्रत्यवस्थाने विशेषतो निर्दिश्य ( श्ये) ते-तत्र लोकस्योद्योतकरानित्याद्युक्तम्, अत्राऽऽहअशोभनमिदं लोकस्येति, कुतः ?, लोकस्य चतुर्दशरज्ज्वात्मकत्वेन परिमितत्वात्, केवलोद्योतस्य चापरिमितत्वेनैव लोकालोकव्यापकत्वाद्, वक्ष्यति च- 'केवलियनाणलंभो लोगालोगं' पगासेइ' त्ति, ततश्चौघत एवोद्योतकरान् लोकालोकयोर्वेति वाच्यमिति, न, अभिप्रायापरिज्ञानात्, इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततश्चाकाशास्तिकायभेद एवालोक इति न पृथगुक्तः, न चैतदनार्षं, यत उक्तम्- 'पचत्थिकायमइओ लोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरान् इति न वक्तव्यं, गतार्थत्वात्, तथाहि ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेर्मा भूत्तदुद्योतकरेष्वधिविष्वर्कचन्द्रादिषु वा सम्प्रत्ययः, तद्व्यवच्छेदार्थं धर्मतीर्थकरानित्याह । आह-यद्येवं धर्मतीर्थकरानि त्येतावदेवास्तु लोकस्योद्योतकरानिति न वाच्यमिति, अत्रोच्यते, इह लोकेऽपि नद्यादिविषमस्थानेषु मुधिकया धर्मार्थमवतरण तीथूकरणशीलास्तेऽपि धर्मतीर्थकरा हवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्ययः तदपनोदाय लोकस्योद्योतकरानत्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा मूत्कुनयनतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तद्व्यवच्छेदार्थमाह-जिनानिति, श्रूयते च कुनयदर्शने'ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम ।
गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।।
इत्यादि, तन्नूनं न ते रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्कुरप्रभवो ?, बीजाभावात, तथा चान्यैरपयुक्तम्
“अज्ञानपांसुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माङ्कुरं जन्तोः ।। तथा "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः । । ”
इति आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते इति, अत्रोच्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org