Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ आवश्यक-मूलसूत्रम् -२- २/३ इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपिजिना एवोच्यन्ते, तद्यथा-श्रुतजिना अवधिजिना मनःपर्यायज्ञानजिनाः छद्मस्थवीतरागाश्च, तन्मा भूत्तेषु सम्प्रत्यय इति तदपनोदार्थं लोकस्योद्योतकरानित्याद्यप्युदुष्टमेव । अपरस्त्वाह-अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अर्हद्व्यतिरेकेणापरे भवन्तीति, अत्रोच्यते अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त! तहत अवेत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य विशेषणसाफल्यस्य च प्रतिपादितत्वात । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामर्हतां केवलित्वाव्यभिचारात, सति च व्यभिचारसम्भवे विशेषणोपादानसाफल्यात, तथा च-सम्भवे व्यभिचारंच विशेषणमर्थवद्भवति, तथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुयादीयमानपयिथा कृष्णो भ्रमरः शुका बलाका इत्यादि (वत) ऋते प्रयासात कमर्थ पुष्णातीति ?, तस्मात्केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानाद, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन स्वरूपज्ञानार्थमेवेदं विशेषणमित्यन वद्यं, न चैकान्ततो व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात, तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपोद्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुपप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टम् । आह-यद्येवं केवलिन इत्येतदेव सुन्दरं, शेषं तुलोकस्योद्योतकरानित्यादिकमनर्थकीमति, अत्रोच्यते इह श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केवलिनः, तस्मान्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति । एवं व्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम्, इत्यलं विस्तरेण, गमनिकामात्रमेतदिति । तत्र यदुक्तं 'कीर्तयिष्ययामीति' तत्कीर्तनं कुर्वन्नाहमू. (४) उसभमजिअंच वंदे संभवमभिनंदणं च सुमइंच । पउमप्पहंसुपासं जिणंच चंदप्पहं वंदे ।। मू. (५) सुविहिं च पुप्फदंतं सीअल सिजंस वासुपुज्जंच । विमलमनंतंच जिणं धम्म संतिंच वंदामि ।। मू. (६) कुंथु अरंच मल्लिं वंदे मुनिसुव्वयं नमिजिणं च । __वंदामि रिट्ठनेमिं पासंतह वद्धमाणंच ।। वृ- एतास्त्रिस्रोऽपि सूत्रगाथा इति, आसां व्याख्या-इहार्हतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदं-'वृष उद्धहने' समग्रसंयमभारोद्वहनाद वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह- . नि. (१०८०/१) ऊरूसु उसभलंछग उसभं सुमिणमितेन्न उसभजिणो । वृ-पुव्वद्धं ।जेनभगवओ दोसुविऊरूसुउसभा उप्पराहुत्ता जेणच मरुदेवाएभगवअचोदसण्हं महासुमिणाणं पढमो उसमो सुमिणे दिट्ठोत्ति, तेन्न तस्स उसभोत्ति नामं कयं, सेसतित्थगराणं मायरो पढमं गयं तओ वसहं एवं चोदस, उसभोत्ति वा वसहोत्ति वा एगटुं ।। इदानिं अजिओ-तस्य सामान्येनाभिधाननिबन्धनं परीषहोपसर्गादिभिर्न जितोऽजितः,सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषनिबन्धनाभिधित्सयाऽऽह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 356