Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 7
________________ आवश्यक-मूलसूत्रम् -२- २/३ तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाह[भा.१९०] . नामंठवणा दविए खित्ते काले तहेव भावे अ । चउवीसइस्स एसो निक्खेवो छव्विहो होइ ।। वृ-तत्रनामचतुर्विंशतिर्जीवादेश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दोवा, स्थापनाचतुर्विंशति चतुर्विंशतीनां केषाञ्चित्स्थापनेति, द्रव्यचतुर्विंशति चतुर्विंशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प(दाप)दभेदभिन्नानि, अचित्तानि कार्षापणादीनि, मिश्राणि द्विपदादीन्येव कटकाद्यलङ्कतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्रप्रदेशा वा चतुर्विंशतिप्रदेशावगाढं वा द्रव्यमिति, कालचतुर्विंशतिः चतुर्विंशतिसमयादय इति एतावत्कालस्थितिवाद्रव्यमिति, भावचतुर्विंशतिःचतुर्विंशतिभावसंयोगाश्चतुर्विंशतिगुणकृष्णंवा द्रव्यमिति, चतुर्विंशतेरेष निक्षेपः षड्विधो भवति' षट्प्रकारो भवति, इह चसचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इतिगाथार्थः ।। उक्ता चतुर्विंशतिरिति, साम्प्रतं स्तवः[भा.१९१] नामंठवणा दविए भावे अथयस्स होइ निक्खेवो । दव्वथओ पुप्फाईसंतगुणक्कित्तणाभावे ।। वृ-तत्र 'नामो ति नामस्तवः ‘स्थापने'ति स्थापनास्तवः 'द्रव्य' इति द्रव्यविषयो द्रव्यस्तवः, 'भावे चेति भावविषयश्च भावस्तव इत्यर्थः, इत्थं स्तवस्य भवति निक्षेपो' न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तवस्वरुपमेवाह-'द्रव्यस्तवः पुप्पादि'रिति, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराच्चैवमाह, अन्यथा द्रव्यस्तवः पुष्पादिभिः समभ्यर्चनमिति, तथा 'सद्गुणानामुत्कीर्तना भाव' इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह, करणे च मृषावाद इति, सद्गुणानामुत्कीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना-संशब्दना यथा "प्रकाशितं यथैकेन, त्वया सम्यग्जगत्त्रयम् । समग्रैरपि नो नाथ!, परतीर्थाधिपैस्तथा ।। विद्योतयति वा लोकं, यथैकोऽपि निशाकरः । समुद्गतः समग्रोऽपि, किंतथा तारकागणः?।।" इत्यादिलक्षणो, 'भाव' इति द्वारपरामर्शोभावस्तव इति गाथार्थः ।। इह चालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनांच कदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तंच-कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा कहेंति आयरिया' इत्यादि, यतश्चात्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तद्व्यदासार्थं तदनुवादपुरस्सरमाह[भा.१९२] दव्वथओभावथओ दव्वथओ बहुगुणत्ति वुद्धि सिआ । अनिउणमइवयणमिणं छज्जीवहिअंजिना बिंती ।। वृ- द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो ‘बहुगुण' प्रभूततरगुण ‘इति' एवं बुद्धिः स्याद्, एवं चेत् मन्यसे इत्यर्थः, तथाहि-किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्राचतं क्रियमाणमन्येऽपि प्रतिबुद्धयन्ते इतिस्वपरानुग्रहः, सर्वमिदंसप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारताख्यापनायाऽऽह-'अनिपुणमतिवचनमिद'मिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम्, ‘इद'मिति यद् द्रव्यस्तवो बहुगुणइति, किमित्यत आह'षड्जीवहितं जिना ब्रुवते' षण्णां-पृथिवीकायादीनां हितं जिनाः-तीर्थकरा ब्रुवते, प्रधानं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 356