Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानाङ्ग सूत्रम्-/-/
अथवा अथपिक्षया अणोः-लधोः पश्चाजाततया वाअनुशब्दवाच्यस्य सूत्रस्य योऽभिधेये योगो-व्यापारस्तेन सम्बन्धो वा सोऽनुयोगोऽनुयोगो वेति, आह च॥१॥ “अहवा जमत्थओ थोवपच्छभावेहि सुयमनुंतस्स।
अभिधेये वावारो जोगो तेणं व संबंधो" त्ति, तस्यद्वाराणीवद्वाराणि-तप्रवेशमुखानि, एकस्थानकाध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, नगरद्दष्टान्तश्चात्र, यथा हि अकृतद्वारनगरमनगरमेव भवति, कृतैकद्वारमपिदुरधिगमंकार्यातिपत्तये च, चतुर्मूलद्वारंतुप्रतिदावारानुगतंसुखाधिगमं कार्यतिपत्तयेच, एवमेकस्थानकाध्ययनपुरमपप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्धारानुद्वारानुगतंतु सुखाधिगममित्यतः फलवान् द्वारोपन्यास इति ५ तानिच द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तोदाः६।
निरुक्तिस्तु उपक्रमणमुपक्रमइति भावसाधनः शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यतेवाऽनेन गुरुवागयोगेनेत्युपक्रमइतिकरणसाधनः, उपक्रम्यतेऽस्मिन्निति वाशिष्यश्रवणभावेसतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादितिवाविनीतविनेयविनयादित्युपक्रम इत्यपादान इति, एवं निक्षेपणं निक्षिप्यते वाऽनेनास्मिन्नास्मादिति वा निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिनस्मादिति वाऽनुगमः-सूत्रस्यन्यासानुकूलः परिच्छेदः, एवं नयनं नयः नीयतेऽनेनास्मिन्नास्मादिति वा नयः-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः७।अथैषामुपरक्रमादिद्वाराणामित्थंक्रमे किंप्रयोजनमिति?,अत्रोच्यते, नह्यनुपक्रान्तंसदसमीपीभूतंनिक्षिप्यते, नचानिक्षिप्तंनामादिभिरर्थतोऽनुगम्यते, नचार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्तञ्च॥१॥ “दारक्क मोऽयमेव उ निक्खिप्पइ जेण नासमीवत्थं ।
अनुगम्मइ नानत्यं नानुगमो नयमयविहूणो"त्ति॥८॥ तदेवं फलादीन्युक्तानि । साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमुचिन्त्यतेतत्रोपक्रमो द्विविधो-लौकिकः शास्त्रीयश्च, तत्र लौकिकः षोढा-नामस्थापनाद्रव्यक्षेश्रेत्रकालभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्रव्योपक्र मो द्वेधा-सचेतनाचेतनमिश्रद्विपदचतुष्पदापदरूपस्य द्रव्यस्य परिकर्मविनाशश्चेति, तत्रपरिकर्म-गुणान्तरोत्पादनं विनाशः-प्रसिद्ध एव, एवं क्षेत्रस्य-शालिक्षेत्रादेः कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादमिः परिज्ञानं, भावस्य चगुर्वादिचित्तलक्षणस्यानवगतस्येगितादिभिरवगम इति, शास्त्रीयोऽपि षौढेव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, -
-तत्रानुपूर्वीदशधाऽन्यत्रोक्ता, तत्र चोत्कीर्तनगणनानुपूर्योरिदमवतरति, उत्कीर्तनञ्च एकस्थानंद्विस्थानंत्रिस्थानमित्यादि, गणनंतु परिसङ्घयानं-एकंवत्रीणिइत्यादि, साचगणनानुपूर्वी त्रिप्रकारा-पूर्वानुपूर्वीपश्चानुपूक्नानुपूर्वी चेति, पूर्वानुपूव्येदं प्रथमंसद्व्याख्यायतेपश्चानुपूर्व्या दशममनानुपूर्व्या त्वनियतमिति, तथा नाम दशधा-एकादि दशान्तं, तत्र षड्नाम्न्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिकभावस्वरूपत्वात् सकलश्रुतस्येति, उक्तञ्च॥१॥ "छव्विहनामे भावे खओवसमिए सुयं समोयरति।
जं सुयनाणावरणक्खओवसमजं तयं सव्वं" ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/76da081f4b8fded2c94c52319f52d5f91aa79a0389f129f019d04de53c8d1657.jpg)
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 596