Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 18
________________ स्थानं-१, - उद्देशकः १५ एवंप्रतिसूत्रस्वयमनुसरणीयं, वयंतुसंक्षेपार्थक्क चित्किञ्चिदेवमणिष्यामइति ।यदाख्यातं भगवता तदधुनोच्यते-तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानानुष्ठानैर्विषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचारं तावदादावाह मू. (२) एगे आया। वृ. एकोन योदिरूप आत्मा-जीवः, कथञ्चिदिति गम्यते, तत्र अतति-सततमवगच्छति 'अत सातत्यगमन' इति वचनादतोधातोगत्यर्थत्वाद्गत्यर्थानां च ज्ञानार्थत्वादनवरतंजानातीति निपातनादात्मा-जीवः, उपयोगलक्षणत्वादस्य सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावेचाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपितथात्वप्रसङ्गात्, एवञ्च जीवानादित्वाभ्युपगमाभावप्रसङ्गइति, अथवाअततिसततंगच्छतिस्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपि स्वपर्यायेषु सततगमनाद्, अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवं, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद्,_ - जीव एव आत्मा नाकाशादिरिति, यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति, तस्य चैकत्वं कथञ्चिदेव, तथाहि-द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः, प्रदेशार्थतयात्वनेकत्वमसङ्घयेयप्रदेशात्मकत्वात्तस्येति, तत्रद्रव्यंचतदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता-प्रदेशगुणपर्यायाधारता अवयवविद्रव्यतेतियावत्, तथा प्रकृष्टो देशः प्रदेशो-निरवयवोंऽशः स चासावर्थश्चेति प्रदशार्थः तस्य भावः प्रदेशार्थता-गुणपर्यायाधारा वयवलक्षणा-र्थतेतियावत्, नन्ववयवि द्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्यमानत्वात्, खरविषाणवत, तथाहि-अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा स्याद?.न तावदभिन्नमभेदेहि अवयविद्रव्यवदव-यवानामेकत्वं स्याद्, अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्यभेदनिबन्धनत्वादिति, भिन्नंचेत् तत्तेभ्यस्तदा किमवयविद्रव्यं प्रत्येकमवयवेषुसर्वात्मनासमवैतिदेशतो वेति?, यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात् कथमेकत्वं तस्य?, अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्त्तते तेष्वपि देशेषु तत्कथं प्रवर्तते देशतः सर्वतो वेति?,सर्वतश्चेत्तदेव दूषणं, देशतश्चेत् तेष्वपिदेशेषुकथमित्यादिरनवस्था स्यादिति, . अत्रोच्यते, यदुक्तम्-'विकल्पद्वयेन तस्यायुज्यमानत्वा'दिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवाएव हि तथाविधैकपरिणामितयाअवयवविद्रव्यतयाव्यपदिश्यन्ते,तएव च तथाविधविचित्रपरिणामापेक्षयाअवयवाइति, अवयविद्रव्याभावेतुएतेघटावयवा एतेचपटावयवाइत्येवमसङ्कीर्णावयवव्यवस्था नस्यात्, तथा च प्रतिनियतकार्यार्थिनांप्रतिनियतवस्तूपादानं न स्यात्, तथा च सर्वमसमञ्जसमापनीपद्येत, सन्निवेशविशेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यं, केवलंस एव सन्निवेशविशेषोऽवयविद्रव्यमिति, यच्चोच्यतेविरुद्धधर्माध्यासो भेदनिबन्धनमिति, तदजपिनसूक्तं, प्रत्यक्षसंवेदनस्यपरमार्थापक्षयाभ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 596