Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं १,
·
- उद्देशकः -
१३
‘एव’मित्यनेन तु भगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अत एव स्ववचनसय प्रामाण्यं, सर्वज्ञवचनानुवादमात्रत्वादस्येति, अथवा 'एव' मित्येकत्वादिः प्रकारोऽभिधेयतया निर्द्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतॄणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्र मा भूदिति, 'आख्यात' मित्यनेन तु नापौरुषेयवचनरूपमिदं, तस्यासम्भवादित्याह यत उक्तम्"वेयवयणं न माणं अपोरुसेयंति निम्मियं जेण । इदमच्चंतविरुद्धं वयणं च अपोरुसेयं च जं वुच्चइत्ति वयणं पुरिसाभावे उ नेयमेवंति । ता तस्सेवाभावो नियमेन अपोरुसेयत्त"
119 11
॥२॥
119 11
इति, अथवा आख्यातं भगवतेदं, न कुड्यादिनिःसृतं यथा कैश्चिदभ्युपगम्यते" तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदास्थिते । निःसरन्ति यथाकामं, कुड्यादिभ्योऽपि देशनाः” -इत्यस्यानेनानभ्युपगममाह, यतः'कुड्यादिनिः सृतानां तु न स्यादाप्तोपदिष्टता । विश्वासश्च न तासु स्यात्केनेमा कीर्त्तिता इति ? "
समस्तपदसमुदायेन त्वात्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च विद्यादेरपि सफलता स्यादिति, यदुक्तम्119 11 “भत्तीए जिनवराणं खिज्जंती पुव्वसंचिया कम्मा । आयरियनमोक्कारेण विज्जा मंता य सिज्झंति "त्ति,
नमस्कारश्च भक्तिरेवेति, अथवा 'आउसंतेणं' ति भगवद्विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः, अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितं, भगवद्बहुमानस्य मङ्गलत्वादिति चोक्तमेव, यद्वा 'आयुष्मते 'ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता नतु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तं यथोच्यते कैश्चित्"ज्ञानिनो धर्म्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः " ( यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! । अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम् )
11911
"
एवं ह्यनुन्मूलितरागादिदोषत्वात् तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति ?, अथवा 'आयुष्मता' प्राणधारणधर्मवता न तु सदा संशुद्धेन, तस्याकरणत्वेनाख्यातृत्वासम्भवादिति, यदिवा-'आवसंतेणं' ति मयेत्यस्य विशेषणं, तत आङिति - गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्त्तिस्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तं ज्ञानादिहेतुत्वात्तस्य, उक्तञ्च
119 11
119 11
॥२॥
॥२॥
"नाणस्स होइ भागीथिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति गयावासोती धम्मे, अनाययनवज्जणं । निग्गहो य कासायाणं, एवं धीराण सासणं" ति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2eb3af9280c7ec7a50160de8a95e976feeb389539c5b31f377158e12f114e65b.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 596