Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ १२ स्थानाङ्ग सूत्रम् १/-/9 दिना प्रकारेण 'आख्यात' मिति आ-मर्यादया जीवाजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वासमस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं कथितं आख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च 'श्रुत' मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तञ्च 119 11 " किं एत्तो पावयरं ? सम्मं अणहिगयधम्मसब्भावो । अन्नं कुदेसणाए कट्ठयरागंमि पाडेइ "त्ति, ‘मये’त्यनेनोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नागमेऽयं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम इत्याह, 'आयुष्मन्नि' त्यनेन तु कोमलवचोभिः शिष्यमनःप्रह्लादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तञ्च “धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं । पह्लायंतो य मनं सीसं चोएइ आयरिओ " त्ति । आयुष्मत्त्वाभिधानं चात्यन्तमाह्लादकं, प्राणिनामायुषो ऽत्यन्ताभीष्टत्वाद्, यत उच्यते'सव्वे पाणा पियाउया अप्पियवहा सुहासाया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसिं जीवियं पियंति, 119 11 ॥१॥ तथा - " तृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः । जीवितार्थे नरास्तेन, तेषामायुरतिप्रियतम्” इति, अथवा 'आयुष्मन्नि' त्यनेन ग्रहणधाराणादिगुणवते शिष्याय शास्त्रार्थो देय इति ज्ञापनार्थं सकलगुणाधारभूत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तम्“वुट्ठेऽवि दोणमेहे न कण्डभूमाउ लोट्टए उदयं । गणधरणासमत्थे इय देयमछित्तिकारिंमि "" || 9 11 विपर्यये तु दोष इति, आह च 11911 “आयारिए सुत्तम्मि य परिवाओ सुत्तअत्थपलिमंथो । अन्नेसिंपि य हाणी पुट्ठावि न दुद्धदा वंझा " इति, तथा 'तेनो'त्यनेन त्वाप्तत्त्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तृगुणापेक्षत्वाद्वचनप्रामाण्यस्येति, 'भगवते' त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयः, तद्वचनमपि तथेति, अथवा 'तेणं' ति अनेनोपेद्घातनिर्युक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यात्वतमः प्रभृतिभ्यो दोषेभ्यो निर्गतस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्यां पूर्वाह्णे भावे क्षायिके वर्त्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपि दर्शितः, इदं हि भगवदाख्यांत ग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्त्तिताः, यतः 119 11 “सिद्धार्थं सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः " इति, For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 596