Book Title: Agam Suttani Satikam Part 03 Sthanang Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 9
________________ स्थानाङ्ग सूत्रम्-1-1 ॥१॥ “तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्म सूयगडं नाम अंगंति ॥२॥ दसकप्पव्ववहारा संवच्छरपणगादिक्खियस्सेव । ठाणं समवाओऽविय अंगे ते अठ्ठ वासस्स ।। (त्ति) अन्यथा दानेऽस्याज्ञाभङ्गादयो दोषा इति २ । तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र प्रवर्तेरनिति तदुपशमाय मङ्गलमुपदर्शनीम्, उक्तञ्च॥१॥ "बहुविग्धाइंसेयाइं तेण कयमङ्गलोवयारेहिं । घेत्तव्यो सो सुमहानिहिव्व जह वा महाविज्जा" इति, मङ्गलं च शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तयेतस्यैव स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तम्॥१॥ "तं मंगलमाईए मज्झे पज्जन्तए य सत्थस्स। पढमं सत्थत्थाविग्घपारगमणाय निद्दिढं ॥२॥ तस्सेव य थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव ॥ अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स"त्ति ॥ तत्रादिमङ्गलं ‘सुयं मे आउसं ! तेणं भगवये'त्यादिसूत्रं, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्वहुमानगर्भत्वाद्वा आयुष्मतभगवतेत्यस्य, नन्दीभगवद्बहुमानयोश्च मङ्गयते-अधिगम्यते वाञ्छितमनेनेतिमङ्गलार्थस्य युज्यमानत्वादिति, मध्यमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं पंचमहव्वए इत्यादि,' महाव्रतानां क्षायिकादिभावतया मङ्गलत्वाद्, भवति हि क्षायिकादिको भावो मङ्गलं, यत उक्तम्- “नोआगमओ भावो सुविसुद्धो खाइयाइओ" त्ति, अथवा षष्ठाध्यनादिसूत्रं ‘छहिं ठाणेहिं संपन्ने अनगारे अरहई गणं धरित्तए' इत्यादि, अनगारस्य परमेष्ठिपञ्चकान्तर्गतत्वेन मङ्गलत्वात्, सूत्राभिधेयानां वा गणधरस्थानानां क्षायोपशमिकादिभावरूपतया मङ्गलत्वादिति, अन्तमङ्गलं तु दशमाध्ययनस्यान्तसूत्रं 'दसगुणलुक्खा पोग्गला अनंता पनृत्ते' तीहानन्तशब्दस्य वृद्धिशब्द-वन्मङ्गलत्वादिति, सर्वमेव वा शास्त्रं मङ्गलं, निर्जरार्थत्वात्, तपोवत्, मङ्गलभूतस्यापि शास्त्रस्य यो मङ्गलत्वानुवादः स शिष्यमतिमङ्गलत्वपरिग्रहार्थं, मङ्गलतया हि परिगृहीतं शास्त्रं मङ्गलं स्याद्, यथा साधुः, इत्यलं प्रसङ्गेनेति, इह च शास्त्रस्य मङ्गलादि निरूतिपमति तदनुयोगस्य द्रष्टव्यम्, तयोः कथञ्चिदभेदादिति ३ । . अथेदानी समुदायार्थश्चिन्त्यते-तत्र स्थानाङ्गमित्येतच्छास्त्रनाम, नामच यथार्थादिभेदात् त्रिविधं, तद्यथा-यथार्थमयथार्थमर्थशून्यंच, तत्र यथार्थं प्रदीपादि, अयथार्थं पलाशादि, अर्थशून्यं डित्यादि, तत्र यथार्थशास्त्रभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरूप्यतेतत्र च स्थानामपंचेति पदद्वयं निक्षेपणीयमिति, तत्र स्थानां नामस्थापनादिभेदात् पञ्चदशधा, ॥१॥ “नामंठवणादविएखेत्तऽद्धा उड्ड उवरती वसही। संजमपग्गहजोहे अचलगणणसंधणाभावे॥ त्ति, तत्र स्थानमिति नामैव नामस्थानं, यस्य वा सचेतनस्याचेतनस्य वा स्थानमितित नाम क्रि ते तद्वस्तु नाम्ना स्थानां नामस्थानमित्युच्यते, तथा स्थापयत इति स्थाप्ना-अक्षादिः, सा www.jainelibrary.org Jain Education International For Private & Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 596