Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ स्थानं - १, उपोद्घातः वृत्तिः च स्थानाभिप्रायेण स्थाप्यमाना स्थामप्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानं, तथा द्रव्यं-सचित्ताचित्तमिश्रभेदं स्थानं गुणपर्यायाश्रयत्वात्, ततः कर्मधारय इति, तथा क्षेत्रम् - आकाशं, तच्च तत् स्थानं च द्रव्याणामाश्रयत्वात् क्षेत्रस्थानं, तथा अद्धा - कालः, स च स्थानं, यतो भवस्थितिः कायस्थितिश्चभवकालः कायकालश्चाभिधीयते, स्थितिश्च स्थानमेवेति, 'उड्ड' त्ति ऊर्ध्वतया स्थानम्अवस्थानं पुरुषस्य ऊर्ध्वस्थानं कायोत्सर्ग इति, ७ इह स्थानशब्दः क्रियावचनः, एवंनिषदनत्वग्वर्त्तनादिस्थानमपि द्रष्टव्यम्, ऊर्ध्वशब्दस्योपलक्षणत्वादिति, तथा उपरतिः- विरतिः सैव स्थानं विविधगुणानामाश्रयत्वात्, विशेषार्थो वेह स्थानशब्दः, ततो विरतेः स्थानं-विशेषो विरतिस्थानं, तच्च देशविरतिः सर्वविरतिर्वेति, तथा वसतिः स्थानमुच्यते, स्थीयते तस्मिन्नितिकृत्वेति, तथा संयमस्य स्थानं संयमस्थानम्, इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षापकर्षकृतो विशेषः संयमस्थानं, तथा प्रगृह्यते - उपादीयते आदेयवचनत्वाद्यः स प्रग्रहो-ग्राह्यवाक्यो नायक इत्यर्थः, स चलौकिको लोकोत्तरश्चेति, तत्र लौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, लोकोत्तरश्चाचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकरूप इति, तस्य स्थानं पदं प्रग्रहस्थानमिति तथा योधानां स्थानम् - आलीढप्रत्यालीढवैशाखमण्डलसमपादरूपं शरीरन्यासविशेषात्मकं योधस्थानं, तथा ‘अचल’त्ति अचलतालक्षणो धर्म्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानं, तथा 'गणण’त्ति गणनाविषयं स्थानमेकल्याादिशीर्षप्रहेलिकापर्यन्तं गणनास्थानं, तथा सन्धानं द्रवल्यतश्छिन्नस्य कञ्चुकादेरच्छिन्नस्य तु पक्ष्मोत्पद्यमानतन्त्वादेरिति भावतस्तु छिन्नस्य प्रशस्ताप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्य त्वपरापरोत्पद्यमानस्य प्रशस्ताप्रशस्तभावस्य सन्धानं तदेव स्थानं-वस्तुनः संहतत्वेनावस्थानं सन्धानस्थानं, 'भावे' त्ति भावानाम्-औदयिकादीनां स्थानम्अवस्थितिरितिभावस्थानमिति । एवमिह स्थानशब्दोऽनेकार्थः, इह च वसतिस्थानेन गणनास्थानेन वाऽधिकार इति दर्शयिष्यते ।। इदानीमङ्गनिक्षेप उच्यते, तत्र गाथा 119 11 "नामंगं ठवणंगं दव्वंगं चेव होइ भावंगं । सो खलु अंगस्सा निक्खेवो चउव्विहो होइ " त्ति तत्र नामस्थापने प्रसिद्धे, द्रव्याङ्गं पुनर्द्रव्यस्य-मद्यौषधादेरङ्ग-कारणमवयो वेति द्रव्याङगं, भावस्य-क्षायोपशमिकादेरेवमेवाङ्गं भावाङ्गमिति, इह भावाङ्गेनाधिकार इत्यपि दर्शयिष्यते, तत्र तिष्ठन्त्यासते वसन्ति यथावदभिधेयतयैकत्वादिभिर्विशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम्, अथवा स्थानशब्देनेहैकादिकः सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायकत्वादाचारदिति, स्थानञ्च तत्प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्ग चेति स्थानाङ्गमिति समुदायार्थः ४ । तत्रच दशाध्ययनानि, तेषु प्रथममध्ययनमेकादित्वात् सङ्ख्याया एकसङ्ख्योपेताभादिपदार्थप्रतिपादकत्वात् एकस्थानम्, तस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तत्र अनुयोजनमनुयोगः, - सूत्रस्यार्थेन सह सम्बन्धन्मू, अथवा अनुरूपोऽनुकूलो वा यो योगो-व्यापारः सूत्रस्यार्थप्रतिपादनरूपः सोऽनुयोग इति, आह च“अनुजोजनमनुजोगो सुयस्स नियएण जमभिधेयेण । वावारो वा जोगो जो अनुरूवोऽनुकूलो वा" इति, 119 11 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 596