Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं - उद्देशकः
तथा प्रमाणंद्रव्यादिभेदाच्चतुर्विधं, तत्र क्षायोपशमिकभावरूपत्वादस्यभावप्रमाणेअवतारो, यत आह॥१॥ “दव्वादि चउब्भेयं पमीयते जेण तं पमाणंति ।
इणमज्झयणं भावोत्ति भावमाणे समोयरति" त्ति, भावप्रमाणंच गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु न सम्प्रति, यदाह॥१॥ “मूढनइयं सुयं कालियं तु न नया समोयरंति इहं।
अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो" त्ति, गुणप्रमाणं तु द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणंच, तत्र अस्य जीवोपयोगरूपत्वात् जीवगुणप्रमाणेऽवतारः, तस्मिन्नपिज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्यज्ञानरूपतयाज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह॥१॥ जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे ।
लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ" तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु गणधरतच्छिष्यतप्रशिष्यानपेक्ष्य यथाक्रममात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमन्यत्र प्रपञ्चितंतत एवावधारणीयं. तत्र चास्यपरिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिकश्रुतपरिमाणसङ्ख्यायां, कालिकश्रुतत्वादस्येति, तत्रापि शब्दापेक्षया सङ्खयेयाक्षरपदाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायांपर्यायापेक्षया त्वनन्तपरिमाणात्मिकायां, अनन्तगमपर्यायत्वादागमस्य, तथा चाह-'अनंता गमा अनंता पज्जवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तम्॥१॥ "परसमओ उभयं वा सम्मद्दिट्ठिस्स समओ जेणं।
ता सव्वज्झयणाई ससमयवत्तव्वनिययाइं" ति तथा अर्थाधिकारो वक्तव्यताविशेष एव, स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति।तथा समवतारः-प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, सचानुपूव्यार्दिषुलाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि॥१॥ “अहुणा य समोयारोजेण समोयारियं पइद्दारं ।
एगट्ठाणमनुगओ सो लाघव ओ न पुण वच्चो" - निक्षेपस्त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात्, आह च - ॥१॥
"भण्णइ धेप्पइ य सुहं निक्खेवपयानुसारओ सत्थं ।
ओहो नाम सुत्तं निखेत्तव्वं तओऽवस्सं" - तत्रौघः-सामान्यमध्ययनादि नाम, उक्तञ्च“ओहो जं सामन्नं सुयाभिहाणं चउब्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं For Private & Personal Use Only
www.jainelibrary.org
॥१
॥
Jain Education International
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a303d032fd434533e03f1689003805cd683af79f399f3ab18613ee42b518c682.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 596