Book Title: Agam Sutra Satik 30 Gachchhachar PainngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ मू०१४ २१५ 'निभालयति' जिनोपदेशेनचिन्त्यतीत्यर्थः, चशब्दात्सुविनीतविनेयवर्गजिनगणधराज्ञयापाठयति, अविनीतविनेयं प्रति नार्पयति प्रायश्चित्तापत्तेः, एवंविध आचार्यो मोक्षमार्गवाहकः कथितः ।। अथ मोक्षमार्गभञ्जकः कथ्यतेमू. (१५) संगहोवग्गहं विहिणा, न करेइअजो गणी। समणं समणिं तु दिक्खित्ता, सामायारिन गाहए। वृ. सङ्ग्रहं-ज्ञानादीनां सच्छिष्याणां वा संग्रहणं, उपग्रहं च-तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं विधिना' उत्सर्गापवादप्रकारेण न करोति स्वयं प्रमादमदिराग्रस्तत्वेन चशब्दान्न कारयति कुर्वन्तमन्यं द्वेषयतियः कश्चित् 'गणी' आचार्याभासः, तथा श्रमणंच श्रमणी दीक्षित्वा' व्रतारोपं विधाय 'सामाचारी' 'जयंचरे जयं चिट्टे' इत्यादिरूपां सत्स्वगच्छोक्तां वा 'न ग्राहयेत्' निर्जरापेक्षी सन्न शिक्षयतीत्यर्थः, तुशब्दात्सुविनीतप्रतीच्छकगणमपिन सूत्रार्थं ददाति सोऽयोग्य इति॥ म. (१६) बालाणं जो उ सीसाणं, जाहाए उवलिंपए। न सम्ममग्गं गाहेइ, सो सूरी जाण वेरिओ।। वृ. बाला० ॥ 'बालानां' प्रश्नव्याकरणोक्तानां यो-गणी "शिष्याणां' अन्तेवासिनां, तुशब्दान्महत्तरा स्वशिष्यणीनां, 'जिह्वया' रसनया उपलिम्पेत् गौरिव वत्सं, भावार्थोऽयम्अत्यन्तबाह्यहितकोमलामन्त्रणचुम्बनादिप्रकारान् करोतीत्यर्थः, 'सम्यग्मार्ग मोक्षपथं न ग्राहयति' न दर्शयति न शिक्षयतित्यर्थः, उपलक्षणाच्छिक्षयन्तमन्यं निवारयति स आचार्यो-गणाधीशो 'वैरी' रिपुरितित्वंजानीहि, अथवाऽऽर्षत्वाद्विभक्तिपरिणामः, तमाचार्यवैरिणंजानीहित्वमिति।। अथासद्गुरुसद्गुर्योः किञ्चित्स्वरूपं दर्शयतिमू. (१७) जीहाए विलिहतो न भद्दओ सारणाजहिं नत्थिं । दंडेणवि ताडतो स भद्दओ सारणा जत्थ ।। वृ.जीहाए०॥"जिह्वया विलिहन्' बाह्यहितं कुर्वन्नाचार्यो 'न भद्रो' न कल्याणकृत् यत्र गणिनि- गुरौ “सारणा' हिते प्रवर्तनलक्षणा कृत्यस्मारणलक्षणा वा,उपलक्षणत्वाद्वारणाअहितान्निवारणलक्षणा चोयणा-संयमयोगेषु स्खलितः सनयुक्तमेतद्भवाशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिचोदना तथैवपुनःपुनःप्रेरणा 'नास्ति' न विद्यते, तथा दण्डेनापि यष्ट्यापि, अपिशब्दाइवरकादिना 'ताडयन्' शरीरे पीडां कुर्वन् स आचार्यो भद्रः' कल्याणकृत् यतो यत्र सारणादि विद्यत इति ॥ अथ विनेयनिर्गुणत्वमाहमू. (१८) सीसोवि वेरिओ सो उ, जो गुरुंनवि बोहए। पमायमइराघत्थं, सामायारीविराहयं ॥ वृ. सीसो० ॥'शिष्योऽपि' स्वहस्तदीक्षितोऽपि वैरी' शत्रुस यो 'गुरुं' धर्मोपदेशकं 'न बोधयति' हितोपदेशं न ददाति, तुशब्दाद्धितोपदेशं दत्वा सन्मार्गे न स्थापयति, किंभूतं प्रमादो-निद्राविकथादिरूपः स एव मदिरा-वारुणी प्रमादमदिरा तया ग्रस्तम्-आच्छादितं तत्वज्ञानमित्यर्थः सामाचारीविराधकं, षष्ठाङ्गोक्तशेलकाचार्यवत्येन चातुर्मासिकमपि न ज्ञातमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74