Book Title: Agam Sutra Satik 30 Gachchhachar PainngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२५२
गच्छाचार-प्रकिर्णकसूत्रम् १२५ यदुक्तमोघनियुक्तौ-“खरउ द्वयक्षरो दासप्रायः द्वयक्षरिका दासी"ति, घोटकशब्देन द्यूतकारादिघूत्ताः, यदुक्तंनिशीषचूर्णी-“घोडेहिंगाहा-घोडा वट्ठा जूयक्करादिधुत्ता" इति, आदिशब्दादन्येऽपिताशा, ग्राह्याः, तथा तेऽपि' खरघोटकादयः 'तत्र' आर्यास्थाने व्रजन्ति, अकालसकाले आगच्छन्तीत्यर्थः, वाशब्दात् परोक्षे तेताभिसह ता वा तैः सह दोहकगाथादिमुत्कलनेन परिचयं कुर्वन्तीति।
तथा 'उपाश्रयसमीपे' साध्वीवसतिपार्वे वेश्या स्त्री तस्याः यद्वा वेश्यो ना ततसध्शा याः स्त्रियस्तासां, यद्वा वेश्यायाः स्त्रीदासीलक्षणातस्याः, यद्वा वेश्यायास्त्री नटपुरुषमेलापलक्षणा तस्याः, वेश्या स्त्री तत्पुत्रीलक्षणा तस्या वा, अथवा वेषस्त्री-योगिन्यादिवेषधारिका तस्याः, यदिवा वेषस्य-रजोहरणादिद्रव्यलिङ्गस्य अर्थ-उदरपूरणमुग्धवञ्चनादिप्रयोजनं वेषार्थः सच विद्यते यस्यासी वेषार्थी, सर्वभ्रष्टाचारी साधुरित्यर्थः, आर्षत्वाद्दीर्घः, तस्य संसर्गो भवति हे गौतम! साऽऽर्या व्यक्षरिकोच्यते नत्वार्येति ।। मू. (१२६) छक्कायमुक्कजोगा धम्मकहा विगह पेसण गिहीणं।
गिहिनिस्सिजं वाहिँति संथवं तह करतीओ। वृ.छक्का० ॥ षटकायमुक्तयोगाः' को भावः?-षट्कायेषु-पृथिव्यादिषुमुक्तो दूरीकृतो योगो-यलालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगाः संयत्यो धर्मकथामधर्मकथां वा तथा विकथां परस्परं विधवादिसार्द्ध वा स्त्र्यादिकथां कुर्वन्ति, तथा गृहस्थानां कार्यादौ प्रेषणं कुर्वन्ति 'गृहनिषद्यां वाहयन्ति' गृहस्थानामासनादिकमुपवेशनार्थं, मुञ्चन्तीत्यर्थः, यदिवा गृहिणां निषद्या-चक्कलकगद्दिकादिरूपा तां ‘वाहिती ति व्यापारयन्तीत्यर्थः ।
संस्तवोद्विधा गुणसम्बन्धिसंस्तवभेदात्, एकैको द्विधापूर्वपश्चाद्भावित्वात्, तत्र दानापूर्व पश्चाद्वा गुणान् यत्र स्तौति स गुणसंस्तवः, सम्बन्धिसंस्तवस्तु जननीजनकभ्रातृभगिन्यादिपूर्वकालभावित्वात् पूर्वं, श्वश्रूश्वशुरकलत्रपुत्रादिपश्चात्कालभावित्वात्पश्चात्संस्तवः, आत्मपरतारुण्यादिलक्षणं वयो ज्ञात्वा तदनुरूपं यत् श्वेतपट्यः सम्बन्धं कुर्वन्ति स सम्बन्धिसंस्तवस्तं सस्तवं 'करंतीउत्ति कुर्वन्त्यस्ताः साध्व्यो न भवन्तीति॥ मू. (१२७) समा सीसपडिच्छीणं, चोअणासु अनालसा ।
गणिणी गुणसंपन्ना, पसत्थपरिसागुणा ।। वृ. समा सी० ॥ समाः' तुल्या भवन्ति रागद्वेषपरिणामाभावात् ‘सीस'त्ति स्वशिष्याःस्वसङ्घाटिका इत्यर्थ : प्रतीछिकाश्च स्वपरगच्छात् ज्ञानवैयावृत्याद्यर्थमागतास्तासां तासु वेति, 'चोयणासुत्ति नोदनादिषु पूर्वोक्तशब्दार्थेषु 'अनालस्याः' सर्वथाऽऽलस्यरहिताः, गुणाः-- ज्ञानदर्शनचारित्ररूपास्तैः संपन्नाः-समन्विताः, प्रशस्ता-क्षमाविनयवैयावृत्यादिगुणयुक्तत्वात् परिषत्-परिवाररूपा तयाऽनुगताः-सदासंयुक्ताः, एवंविधो गणः-साध्वीपरिवाररूपो विद्यते यासांता गणिन्यो-मुख्यसाध्व्यो भवन्तीति ॥ मू. (१२८) संविग्गा भीयपरिसा य, उग्गदंडा य कारणे ।
सज्झायझाणजुत्तां य, संगहे अविसारया॥ वृ. संवि० ॥ 'संविग्ना' परमसंवेगरसलीना भीता-भयं प्राप्ता परिषत्-परिवारो यासां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74