Book Title: Agam Sutra Satik 30 Gachchhachar PainngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 26
________________ मू०५३ २२७ 'गुप्ताः' नवब्रह्मचर्यगुप्तिमन्तः श्रीस्थुलभद्रवत्, ‘मुक्ताः' नलोभयुक्ताजम्बूस्वाम्यादिवत्, वैराग्यमार्गमालीनाः' संवेगपथमाश्रिताः अतिमुक्तककुमारकालोदाय्यादिवत्, दशविधसामाचार्याम्उक्तलक्षणायामुधुक्ताः, अवश्यं कर्तव्यमावश्यकं यद्वा गुणानां आ–समन्तादृश्यं करोतीत्यावश्यकं, गुणशून्यमात्मानं आ-समन्ताद् वासयति गुणैरित्यावासकमनुयोगद्वारोक्तलक्षणं तत्रोद्युक्ताः-तत्पराः॥ खरफरुसकक्कासाए अनिट्ठदुट्ठाइ निट्ठरगिराए। निब्मच्छणनिद्धाडणमाईहिं न जे पउस्संति॥ वृ. खर० ॥ खरपरुषकर्कशया गिरा अनिष्टदुष्टया गिरा निष्ठुरगिरा निर्भर्त्सननिर्धाटनादिभिश्च, मोऽलाक्षणिकः, 'ये' मुनयो ‘न प्रद्विष्यन्ति न प्रद्वेषं यान्ति ते सुसाधवो गणयोग्या इति, तत्र खरारे मूढ ! रेअपण्डित! इत्यादिका, पुरुषारेप्रमादिन!रे कुशील ! रेसामाचारीभञ्जक इत्यादिका, कर्कशा २ जिनाज्ञाभञ्जक! रे उत्सूत्रभाषक ! रे व्रतभञ्जक ! इत्यादिका, अनिष्टा रे पापिष्ठ ! मुखं मा दर्शय, रे निर्दय ! इतो व्रज, रे वीरवचनोल्लक ! स्वस्थानं कुरु इत्यादिका। दुष्टारेआचारतस्कर !रेजिनप्रवचननगरप्राकारच्छिद्रकर्तः रेजिनागमकोशार्थरलचौर इत्यादिका, निष्ठुरा रे सूत्रार्थोभयप्रत्यनीक ! रे निलवकुशीलसङ्गकर्तः! रेजिनाज्ञारामच्छेदक! इत्यादिका, निर्भर्त्सनम् अङ्गुल्यादिना तर्जनं, निर्धाटनं-वसतिगणादिभ्योनिष्काशनं, आदिशब्दात्तचिन्ताकरणादिकं, यद्वा प्रवाहेणैकार्थिका एते शब्दाः, यद्वाऽन्योऽपियः सत्परम्परागतोऽर्थः स सङ्ग्राह्य एवेति ॥ मू. (५५) जे अन अकित्तिजणए नाजसजणए नाकजकारी य । नपवयणुड्डाहकरे कंठग्गयपाणसेसेऽवि ॥ वृ.जे अ० । 'ये' गणमुनयः नाकीर्तिजनकाः नायशोजनकाः, चकारानावर्णजनकाः, नाशब्दजनकाः नोऽश्लाघाजनकाः, तत्र सर्वदिगव्याप्यसाधुवादोऽकीर्तिः, अयशो-निन्दनीयतादि, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिगव्याप्यसाधुवादोऽशब्दः, तत्स्थानएवासाधुवादोऽश्लाघेति, ‘नाकार्यकारिणः' नासदनुष्ठानकर्तारः। . 'न प्रवचनोड्डाहकाराः' न प्रवचनमालिन्यकर्तारः, कण्ठे गतः-प्राप्त आगत इत्यर्थः कण्ठगतः प्राणानां-जीवस्य शेषो यत्र, अधस्तनप्रदेशाकर्षणेन बहुप्रदेशबहिकर्षणेन, एवंविधेऽपयवसरे येईग्विधास्तेसुन्दरान्तेवासिनः, यद्वा कण्ठगतः कण्ठागतःप्राणस्य-बलस्य शेषो यत्र, एवं विधेऽप्यवसरे ये ईगविधास्ते धन्या इति॥ मू. (५६) गुरुणा कामकजे खरकका सदुद्दनिहरगिराए । भणिए तहत्ति सीसा भणंति तं गोअमा! गच्छं। वृ.गुरु०॥'गुरुणा' स्वाचार्येण कार्यंचाकार्यंचकार्याकार्यं तस्मिन्, मकारोऽलाक्षणिकः, यत्कृत्यं गुरवो जानन्ति शिष्योऽपि जानाति तत्कार्यमुच्यते यत्कृत्यं गुरवो जानन्ति न तु शिष्यः तदकार्य, अन्यथोत्तमानांकिमपि बाह्यान्तरकार्य विना जल्पननसंभवतीति, यद्वा कार्य-सनिमित्तं अकार्य-प्रधाननिमित्तरहितमिति । 'खरकर्कशदुष्टनिष्ठुरगिरा' पूर्वोक्तशब्दार्थया 'भणिते कथिते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74