Book Title: Agam Sutra Satik 30 Gachchhachar PainngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मू०१०१
२४५
तं गच्छंतिविहेणं बोसिरिअ वइज्ज अन्नत्थ ।। वृ.जत्थ० ।। यत्र गणे च हे गौतम ! 'पञ्चानां' घरट्टिका १ उहषल (दूखल) २ चुल्लक ३ पानीयगृह ४ सारवण ५ लक्षणानां कथमपि सूनानां' अनाथाशरणजीववृन्दवधस्थानानां खट्टिकगृहसध्शानां मध्ये एकमपि भवेत् तं 'गच्छं' अधममुनिसमूह 'त्रिविधेन' मनोवाक्कायेन कृतकारितानुमत्यात्मकेन 'व्युत्सृज्य परित्यक्त्वा 'व्रजेत् गच्छेत् अन्यत्र सत्परम्परागतगणइति॥ मू. (१०२) सूणारंभपवत्तं गच्छं वेसुज्जलं न सेविज्जा ।
जंचारित्तगुणेहिं तु उज्जलं तंतु सेविज्जा ।। १. सूणा० ।। 'सूनारम्भप्रवृत्तं' षड्जीवमर्दनपर खण्डन्यायधिकरणकर्तारं वा 'गच्छं' साध्वाभासगणं वेषेण-कल्पकम्बलीचोलपट्टरजोहरणमुखपोतिकादिलक्षणनेपथ्येन साधुद्रव्यलिङ्गेनेत्यर्थः उज्ज्वलं-सागरडण्डीरवत् परमश्वेतं वेषोज्ज्वलं न सेवेत, दुःखलक्षसंसारवर्द्धत्वात्, कीशं सेवेत ? इत्याह-'यं' गणं ‘चारित्रगुणैः' समितिगुप्त्यादिगुणैः ‘उज्ज्वलं निरतीचारमालोचितातीचारं वा तुशब्दाद् द्रव्यलिङ्गेन मलिनमपि तं गणं सेवेत, तुशब्दात्तद्गतमुनीनां वैयावृत्यादिकमपि कुर्वीत, संसारक्षयहेतुकत्वादिति ॥ मू. (१०३) जत्थ य मुणिणो कयविक्कयाई कुव्वंति संजमब्मट्ठा।
तंगच्छं गुणसायर ! विसं व दूरं परिहरिजा ।। वृ.जत्थय०॥यत्र गमे 'मुनयः' साधुवेषविडम्बकाः प्रवचनोपधातकारकाः आत्मक्लेशकारकाः ‘कय'त्ति मूल्येन वस्त्रपात्रौपधशिष्यादिकं स्वीकुर्वन्ति 'विक्कयाईति मूल्येनान्येषां वस्त्रपात्रजपमालादिकमर्पयन्ति, 'जत्थ ये' त्यत्र चकारादन्यैः क्रयविक्रयादिकं कारापयन्ति कुर्वन्तमन्यमनुमोदयन्ति च, किंभूताः? ___ संयमात्-पृथिव्यादिसप्तदशविधात्भ्रष्टाः-सर्वथा यतनातत्परतारहिताः दूरीकृतचारित्रगुणा इत्यर्थः ‘त पूर्वोक्तस्वरूपं 'गच्छं गणं गुणानां-ज्ञानादिगुणानांसागरः-समुद्रो गुणसागरस्तस्यामन्त्रणं हे गुणसागर!' हे शिष्य ! 'विषमिव' हलाहलविषमिव 'दूरं' अदर्शनं यथा स्यात्तथा परिहरेत् । अत्र विषं तूपमामात्रं येन विषादिक(ना)मरणं भवतिनवा, परंगुणभ्रष्टगच्छसङ्घात् कुमतिग्रस्तगणसङ्गाच्चानन्तानि जन्ममरणानि अनन्ते संसारे भवन्तीति ॥ मू.(१०४) आरंभेसु पसत्ता सिद्धंतपरंमुहा विसयगिद्धा।
मुत्तुं मुणिणो गोयम! वसिज माझे सुविहियाणं ।। वृ.आरंभे०॥बहुवचनात्संरम्भसमारम्भयोरपिग्रहः तेषुप्रकर्षेण-मनोवाक्कायव्यापारेण सक्ताः-तत्पराः प्रसक्ताः, यद्वा आरम्भेषु-जीवोपमर्दकारिषु परिग्रहादिषु सक्ता-मेलनपालनादितत्परास्ता सिद्धान्तेषु-आचाराङ्गादिश्रुतरलेषु पराङ्मुखाः-विपरीतवक्रास्तदुक्तानुष्ठानलेशशून्यत्वात् तत्परिज्ञानशून्यत्वाच्च, विषयो द्विधा कामरूपो भोगरूपश्च, तत्र कामः-शब्दरूपलक्षणः भोगो-गन्धरस्पर्शरूपस्तस्मिन् गृद्धान्मुक्त्वा मुनीन्हे गौतम! वसेत् निवासं कुर्यादिति, मध्ये, केषां ?-सुष्टु-मनोवाक्कायेन शोभनमनुष्ठानं विहितं-निष्पादितं यैस्ते सुविहितास्तेषां सुविहितानामिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74