Book Title: Agam Sutra Satik 30 Gachchhachar PainngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 32
________________ मू०७२ २३३ भेदेन द्वादशविधं, तत्र स्वार्थमेव निष्पन्नं भिक्षादानाय यत्पकल्पितं तदुद्दिष्टं १, यत्कृतोदृत्तं शाल्योदनादि दानाय करम्भः क्रियते तत्कृतं २, यत्कृतोदृत्तं मोदकचूर्णादि भूयः पाकगुडक्षेपेण दानाय मोदकाः क्रियन्ते तत्कर्म ३, तत्र च ये केवन अवपतन्ति तेभ्यो दातव्यमित्युद्देशः १, पाषण्डिनांदातव्यमिति समुद्देशः २,श्रमणानां-शाक्यादीनामादेशः ३, निर्ग्रन्थानाम्-आर्हतानां समादेश ४ इति। 'आहडमाईण'त्ति स्वपरग्रामादेर्जलस्थलपथेन पादाभ्यां नावादिना गन्त्रयादिवाहनेन वा साध्वर्थं भक्तपानवस्त्रपात्राद्यानयनमभ्याहतमुच्यते, तेषां, आदिशब्दापूतिव्यतिरिक्तानामन्येषां दोषाणां च, पूतिदोषस्त्वग्रे वक्ष्यमाणत्वात्, नामग्रहणेऽपि मुनयो भीता भवन्ति । ___'पूईकम्मत्ति आधाकर्मादि षोडशविध उद्गमः, सचसामान्यतो द्विधा-विशोधिकोटि १ रविशोधिकोटिश्च २, तत्राधाकर्म सभेदं १ विभागौद्देशिकस्य द्वादशविधस्यान्त्यं भेदत्रयं कर्मसमुद्देश १ कमदेिश २ कर्मसमादेश ३ लक्षणं २ पूतिराधाकर्मलेशश्लेषः ३ मिश्रजातंपाषण्डिगृहिमिश्रं साधुगृहिमिश्रं४, बादरप्राभृतिका गुर्वागमनं ज्ञात्वा विवाहादिलग्नस्याग्रतः पश्चात्करणलक्षणा ५ अध्यवपूरः स्वगृहपाषण्डिमिश्रः स्वगृहसाधुमिश्रः ६, इयमविशोधिकोटिः, अस्याः शुष्कसित्थुनाऽपिपूतिकर्मा भवेत्, कल्पत्रयेतुदत्तेशुद्धति, उद्गमस्य शेषंदोषजालं विशोधिकोटिः, अस्यां मिलितायां यदि विवेकः कर्तुं शक्यते तदा शुद्धि, नो चेत् कल्पत्रयेणेति । तथा आउत्ताकप्पतिप्पेसुत्ति कल्पत्रेपौ असंसृष्टनीरादिनास्वस्वगच्छोक्तसमाचारीविशेषौ तयोरायुक्ताः, यद्वा आयुक्ता-उद्यमपराः, कयोः ? कल्पश्च-पात्रवस्त्रक्षालनलक्षणः पश्च-अपानादिक्षालनलक्षणः कल्पत्रेपौतयोः कल्पत्रेपयोः, तत्र कल्पोजघन्यमध्यमोत्कृष्टभेदेन विधा, कथं? ओदनमण्डकयवक्षोदकुल्माषराजमाषचपलचपलिकावृत्तचनकसामान्यचन कनिष्पावतुबरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते पात्रे एको मध्ये कल्पः १ द्वितीयो बहिः २ तृतीयस्तु सर्वत्रेति कल्पत्रयं ३ जघन्यतः १ शाकपेयायवागूकोद्रवोदनराद्धमुद्गदाल्याद्यल्पलेपकृदाहारे गृहीते पात्रे कल्पत्रयं मध्ये तत एक बहिर्मध्ये च तत एकः सर्वत्रेति कल्पपञ्चकं मध्यमतः २ क्षीरदधिक्षीरपेयातैलघृतमुद्गपानकातीवरसाधिके बहुलेपकृदाहारे गृहीते कल्पत्रयं मध्ये ततो द्वौ बहिर्मध्ये ततो द्वौ हस्तमुखपात्रबहिर्मध्ये सर्वत्रेतिकल्पसप्तकमुत्कृष्टतः३, सामान्येन चसर्वत्रापि कल्पसप्तकं देयमिति वृद्धवादः, हस्ते तु मणिबन्धं यावत्कल्पादेया इति । त्रेपः-अपानादिक्षालनविधिः, तथा चोक्तंश्रीनिशीथसूत्रतृतीयचतुर्थोद्देशके-"जेभिक्खू वा भिक्खुणी वा उच्चारपासवणं परिठावेत्ता परंतिण्हंणावापूराणंआयमइआयमंतं वा साइजई" सूत्रम्। अस्य चूर्णिः-“नावत्ति पसई ताहि तिहिं आयमियब्वं, अन्ने भणंति-अंजलि पढमनावापूर तिहा करेति, अयवये विगिचइ, बितियं नावापूरं तिहा करेत्ता सर्वावयवान् विसोहेइ, ततियं नावापूरं तिहा करेत्ता तिन्नि कप्पे करेइ, सुद्धं अतो परंजइ तो 'मासलहुति षट्कायवधदोषो बकुशत्वं च, कारणेतु"अतिरित्तेणआयामइजेण वा निल्लेवं निग्गंधं भवती"त्यर्थः, तथा कारणे तुमूत्रेणापि कल्पते, उक्तञ्च बृहत्कल्पे “नोकप्पइ निग्गंथाणवा निग्गंथीण वा अन्नमन्नस्स मोयं आइयत्तए वाआयमित्तए वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74