Book Title: Agam Sutra Satik 30 Gachchhachar PainngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मू०३२
२२१
संविग्नपाक्षिकस्तस्मिन्, तस्येदं लक्षणं॥१॥ "सुद्धं सुसाहुधम्मं कहेइ निंदइ यनिययमायारं ।
सुतवस्सियाण पुरओ होइ य सव्योमराइणिओ ।। वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेव।
अत्तहा नवि दिक्खइ देइ सुसाहूण बोहेउं । इत्यादि। तथा 'इतरः पुनः' उत्सूत्रभाषकः साधुद्वेषी च गृहस्थधर्मात् 'चुक्क'त्ति भ्रष्टो यः स साधुर्न भवति उत्सूत्रप्ररूपकत्वात् साधुपरिद्वेषपरिणामत्वाच्च गृहस्थोऽपि न भवतिगृहाश्रमधर्माभावात् गृहस्थवेषाभावाच्चेति ॥ __ यद्येवं ततः किं कर्तव्यम् ? इत्याहमू. (३३) जइविन सक्कं काउंसम्मं जिनभासिअंअनुट्ठाणं।
तो सम्म भासिज्जा जह भणियं खीणरागेहिं ।। वृ. जइ०॥ यद्यपि शक्यं न भवति तेन 'सक्कइत्ति पाठेतुन शक्यते 'कर्तु' विधातुं, कथं 'सम्यक् त्रिकरणशुद्धया 'जिनभाषितं' केवल्युक्तं 'अनुष्ठानं' आजन्म क्रियाकलापरूपं ततः 'सम्यक् आत्मसामग्रंण भाषेत याशं स्यात्ताशं यथा 'क्षीणरागैः' जिनैः ‘भणितं' कथितं तथा निरूपयेदिति ।। अथ प्रमादिनामपि शुद्धप्ररूपणया को गुणः ? इत्याहमू. (३४) उस्सत्रोऽवि विहारे कम्मं सोहेइ सुलभबोही य।
चरणकरणं विसुद्धं उबवूहितो परूविंतो। वृ. उस्स०॥ उवसनोऽपि' शिथिलोऽपि, क्व?-'विहारे' मुनिचर्यायां 'कर्म' दुष्टज्ञानावरणादिकं शोधयति, कर्मणां शिथिलत्वं प्रापयतीत्यर्थः, सुलभा सुखेन लभ्येत्यर्थः बोधिःजन्मान्तरे जिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, चकारात्सुदेवत्वप्राप्तिस्तदनन्तरं च सुकुलोत्पत्तिर्भवति, किं कुर्वन् ?-चरणकरणं विशुद्धं' निर्दोषं उपळहयन्' निर्मायभवेन प्रशंसा कुर्वन् ‘प्ररूपयन्’ च वाञ्छाविरहितो यथास्थितं भव्यानां कथयन्निति । तत्र - ॥१॥ "वय ५ समणधम्म १० संजम १७ वेयावच्चं च १० बंभगुत्तीओ ९।
नाणाइतियं ३ तव १२ कोहनिग्गहाइ४ य चरणमेयं ॥" तथा-"पिंडविसोही ४ समिई ५ भावण १२ पडिमा य १२ इंदियनिरोहो ५ ।
पडिलेहण २५ गुत्तीओ अभिग्गहा ४ चेव करणं तु ॥ इति ॥ अथ संविज्ञपाक्षिकस्य साधुविषये किञ्चित्कृत्यं दर्शयन् इत्याहमू. (३५) संमग्गमग्गसंपडिआण साहूण कुणइ वच्छल्लं ।
ओसहभेसजेहि य सयमन्नेणं तु कारे॥ वृ.संमग्ग० ॥ सन्मार्गमार्गसंप्रस्थितानां प्रधानमार्गपरम्पराप्रवृत्तानां 'साधूनां जगदुत्तममुनीनां करोति' निर्जरार्थं विधत्ते वात्सल्यं अन्तरङ्गभावेनोपकारकरणं, कै?-'औषधभेषजैः' तत्रौषधम्-अनेकद्रव्यसंयोजितं तद्व्यतिरिक्तं भेषजं, यद्वा औषधं हरीतक्यादि भेषजं पेयादि, चशब्दोऽनेकप्रकारभावसूचकः, 'स्वयं' आत्मना 'अन्येन' आत्मव्यतिरिक्तेन कारयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74