Book Title: Agam Sutra Satik 06 Gnatadharmakath AngSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 169
________________ १६६ ज्ञाताधर्मकयाङ्ग सूत्रम्-१/-/९/१११ गुरुजनदृष्टापराधा-पित्राद्युपलब्धव्यलीका सुजनकुलकन्यका कुलीनेति भावः, तथा घूर्णन्तीव-वेदनया थरथरायमाणेव वीचिप्रहारशतताडिता हि स्त्री वेदनया घूर्णतीति वेदनयेव घूर्णयन्तीत्येवमुपमानं द्रष्टव्यं, गलितलम्बनेव-आलम्बनाद् भ्रष्टेव गगनतलात्-आकाशात् पतितेति गम्यते, यथा क्षीणबन्धनं फलाद्याकाशात् पतति एवं साऽपीति, क्वचित्तुगलितलम्बना इत्येतावदेव दृश्यते, तत्रलम्ब्यन्तेइति लम्बनाः-नङ्गरास्तेगलितायस्यांसा तथा, तथारुदन्तीव, कैः केत्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलग्रन्थयः तेचते विप्पइरमाण'त्ति विप्रकिरन्तश्च सलिलंक्षरन्त इति समासःत एव स्थूरा अश्रुपातास्तैर्नववधूरुपरतभर्तृका तथा विलपन्तीव, कीशी केत्याह-परचक्ररजेनअपरसैन्यनृपतिनाऽमिरोहिता-सर्वतः कृतनिरोधायासातथा, परममहाभयाभिद्रुतामहापुरवरी, तथा क्षणिकस्थिरत्वासाधात् ध्यायन्तीव कीशी केत्याह-कपटेन-वेषाद्यन्यथात्वेन यच्छद्मतेनप्रयोगः-परप्रतातरणव्यापारः तेन युक्तायासातथायोगपरिव्राजिका-समाधिप्रधानव्रतिनीविशेषः, तथा निःश्वसन्तीव अधोगमनसाधात् तद्गतजननिःश्वाससाधाद्वा निःश्वसन्तीव कीशी केत्याह-महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा परिणतवयाविगतयौवना 'अम्मय'त्ति अम्बा पुत्रजन्मवती, एवंभूता हि स्त्री श्रमप्रचुरा भवति ततश्चात्यर्थं निःश्वसितीत्येवंसा विशेषितेति, तथा तद्गतजनविषादयोगात्शोचन्तीव, कीशी केवेत्याहतपश्चरणं-ब्रह्मचर्यादि तत्फलमपि उपचारात् तपश्चरणं स्वर्गसम्भवभोगजातंतस्य क्षीणः परिभोगो यस्याः सा तथा, च्यवनकालेदेववरवधूः, 'उप्पयमाणीविवे'त्यादाविवशब्दस्यान्यत्र योगादुत्पतन्ती नौः, केव?-सिद्धविद्याविद्याधरकन्यकेवेत्यादि व्याख्येयमिति, तथा सञ्चूर्णितानि काष्ठानिकूवरं च-तुण्डं यस्याः सा तथा, तथा भग्ना मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो-भग्नः सहसा-अकस्मात् सहसङ्ख्यजनाश्रयभूतो वा मालो-मालक; उपरितनभागो जनाधारो यस्याः सा तथा, ततः पदद्वयस्य कर्मधारयः, तथा शूलाचितेव-शूलाप्रोतेव गिरिश्र-ङ्गारोहणेन निरालम्बनतां गतत्वाच्छूलाचिता वङ्को-वक्रः परिमर्शो-जलधिजलस्पर्शो यस्याः सा तथा ततः कर्मधारयः अथवा शूलायितः-आचरितशूलारूपः स्कन्दितपरिकरत्वात् ‘सूलाइत्त'त्ति पाठे तुशूलायमानो वश्व-वक्रः परिमासोत्ति नौगतकाष्ठविशेषो नाविकप्रसिद्धो यस्यां सा तथा, __-फलकान्तरेषु-सङ्घटिकफलकविवरेषु तटतटायमानाः-तथाविधध्वनि विदधानाः स्फुटन्तो-विघटमानाः सन्धयो-मीलनानि यस्यां सा तथा, विगलन्त्यो लोहकीलिका यस्यां सा तथा, ततः कर्मधारयः,तथासङ्गिः-सर्वावयवैर्विजृम्भिता-विवृततांगतायासा तथा, परिशटिता रज्जवः-फलकसङ्घातनदवरिका यस्याः सा तथा, अत एव 'विसरंत'ति विशीर्यमरणानि सर्वाणि गात्राणियस्याः सातथा, ततः कर्मधारयः,आमकमल्लकभूता-अपक्वशरावकल्पा, जलसम्पर्के क्षणेन विलयनात्, तथा अकृतपुण्यजनमनोरथइव चिन्त्यमाना-कथमियमेतामापदंनिस्तरिष्यतीत्येवं विकल्प्यमाना गुर्वी-गुरुका, आपदः सकाशात् दुःसमुद्धरणीयत्वात्, -निष्पुण्यजनेनापि स्वो मनोरथः कथमयं पूरयिष्यत इत्येवं चिन्त्यमानो दुर्निर्वहत्वाद् गुरुरेवभवन्तीतितेनोपमेति, तथाहाहाकृतेन-हाहाकारेणकर्णधाराणां-निर्यामकाणां नाविकानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280