Book Title: Agam Sutra Satik 06 Gnatadharmakath AngSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 263
________________ २६० ज्ञाताधर्मकथाङ्ग सूत्रम्--1-1-1॥३॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादशजनैस्ततः शास्त्रार्थे मै वचनमनधंदुर्लभमिह ।। ॥४॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः प्रयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः॥ ॥५॥ तथापि माऽस्तु मे पापं, सङ्घमत्युपजीवनात् । वृद्धान्यासानुसारिवाद्धितार्थं च प्रवृत्तितः।। तथाहि--किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ ॥७॥ यो जैनाभिमतं प्रमाणमनधं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादि सम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो निःसम्बन्धविहारमप्रतिहतशास्त्रानुसारात्तथा ॥ ॥८॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तबन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि। छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः॥ ॥९॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ।। ॥१०॥ निर्वृतककुलनभस्तलचन्द्रदोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवप्रियेण संशोधिता चेयम् ॥ ॥११॥ प्रत्यक्षरं गणनया, ग्रन्थानं विनिश्चितम् । अनुष्टुभां सहनाणि, त्रीण्येवाष्टशतानि च ॥ ॥१२॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यांच सिद्धेयम् ।। ६ षष्ठं अङ्गसूत्रं ज्ञाताधर्मकथा-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280