________________
२६०
ज्ञाताधर्मकथाङ्ग सूत्रम्--1-1-1॥३॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद्
वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादशजनैस्ततः
शास्त्रार्थे मै वचनमनधंदुर्लभमिह ।। ॥४॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः प्रयत्नतः ।
न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः॥ ॥५॥ तथापि माऽस्तु मे पापं, सङ्घमत्युपजीवनात् ।
वृद्धान्यासानुसारिवाद्धितार्थं च प्रवृत्तितः।। तथाहि--किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि यत्,
परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ ॥७॥ यो जैनाभिमतं प्रमाणमनधं व्युत्पादयामासिवान्,
प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादि सम्बन्धि तत् ।
नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो
निःसम्बन्धविहारमप्रतिहतशास्त्रानुसारात्तथा ॥ ॥८॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः,
तबन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि।
छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः,
श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः॥ ॥९॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता ।
ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ।। ॥१०॥ निर्वृतककुलनभस्तलचन्द्रदोणाख्यसूरिमुख्येन ।
पण्डितगुणेन गुणवप्रियेण संशोधिता चेयम् ॥ ॥११॥ प्रत्यक्षरं गणनया, ग्रन्थानं विनिश्चितम् ।
अनुष्टुभां सहनाणि, त्रीण्येवाष्टशतानि च ॥ ॥१२॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् ।
अणहिलपाटकनगरे विजयदशम्यांच सिद्धेयम् ।। ६ षष्ठं अङ्गसूत्रं ज्ञाताधर्मकथा-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रस्य
अभयदेवसूरि विरचिता टीका परिसमाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org