Book Title: Agam Sutra Satik 06 Gnatadharmakath AngSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२४४
ज्ञाताधर्मकथाङ्गसूत्रम् - १/-/१८/२०१
नुष्ठानं यस्य स तथा, 'अधम्मेण चेव वित्तिं कप्पेमाणे विहरति ' अधर्मेण - पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिना कर्णा वृत्तिं वर्त्तनं कल्पयन् – कुर्वाणो विहरति-आस्ते स्म
'हणछिंदभिंदवियत्तए' हन- विनाशय छिन्द - द्विधा कुरु भिंद - कुंतादिना भेदं विधेहीत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनच्छिन्दभिन्दविकर्त्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धः, अनुकरणरूपत्वादेषां, 'लोहियपाणि' प्राणविकर्तनो लोहितौ रक्तरक्ततया पाणी--हस्तौ यस्य स तथा, 'चंडे' चण्डः उत्कटरोपत्वात्, 'रुद्दे' रौद्रोद निस्तृशत्वात्, क्षुद्रः क्षुद्रकर्म्मकारित्वात्, साहसिकः - असमीक्षितकारित्वात्, 'उक्कंचणवंचणमायानियडिकवडकूड-स.. जोगबहुले' उत्कञ्चनमुत्कोचा, मुग्धं प्रति तव्यतिरूपदानादिकमसदव्यवहारं कर्तुं प्रवृत्तस्स पाशवर्तिविचक्षणभयात् क्षणं यत्तदकरणं यदुत्कञ्चनमित्यन्ये, वञ्चनं प्रतारणं माया- परवञ्चनबुद्धिः निकृतिः - बकवृत्त्या कुर्कुटादिकरणं अधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थं मायान्तरकरणमित्यन्ये कपट-वेषादिविपर्ययकरणं कूटं कार्षापणतुलाव्यवस्थापत्रादीनामन्यथाकरण
'साइ'त्ति अविश्रम्भः एषां सम्प्रयोगः-प्रवर्त्तनं तेन बहुलः स वा बहुलो यस्य स तथा, ‘निस्सीले ' अपगतशुभस्वभावः 'निव्वए' अणुव्रतरहितः 'निर्गुणो' गुणव्रतरहितः 'निप्पञ्चक्खणपोसहोववासे' अविद्यमानपीरुष्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः, 'बहूणंदुपयचउप्पयमियपसुपक्खिसिरीसवाणं घायाए बहाए उच्छायणयाए अधम्म केऊसमुट्ठिए' त्ति प्रतीतं नवरंघातः- प्रहारोवधोहिंसाव्यत्ययो वा उच्छादना - जातेरपिव्यवच्छेदनंतदर्थं 'अधमर्म्मकेतुः पापप्रधानः केतुः - ग्रहविशेषः स इव यः स तथा, द्विपदादिसत्त्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्गतं जनमुखान्निःसृतं यशः - ख्यातिर्यस्य स तथा,
सूरो- विक्रमी ढप्रहारी गाढप्रहारः शब्दं लक्षीकृत्य विध्याति यः सः शब्दवेधी, चौरादीन्येकादश पदानि प्रतीतानि, नवरं ग्रन्थिभेदकाः -न्यासकान्यथाकारिणः धुघुरकादिना वा ये ग्रन्थीन् छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन् विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्तीः काणयन्ति, 'अणधारयं ति ऋणं - व्यवहरकदेयं द्रव्यं तद्ये तेषां धारयन्ति, खंडरक्षा - दण्डपाशिकाः, तथा छिनन्ना - हस्तादिषु भिन्ना नासिकादौ बाह्याः देशात् आहता - दण्दादिभिः ततो द्वन्द्वः, कुडंगंवंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात् स तथा, 'नित्थाणं' ति स्थानभ्रष्टं 'अग्गअसिलट्टिगाहि' त्ति पुरस्तात् खङ्गयष्टिग्राहः अथवा अग्रयः- प्रधानः ।
मू. (२१०) तते गं से चिलाए चोरसेनावती अन्नया कयाइं विपुलं असणन ४ उवक्खडावेत्ता पंच चोरसए आमंतेइ तओ पच्छा पहाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असनं ४ सुरं च जाव पसण्णं च आसाएमाणे ४ विहरति,
जिमियभुत्तुत्तरागए ते पंच चोरसए विपुलेणं धूवपुप्फगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ एवं व० - एवं खलु देवा० ! रायगिहे नयरे धन्ने नामं सत्थवाहे अड्डे, तस्स णं धूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातिया पुंसुमानामंदारिया यावि होत्था अहीणा जाव सुरूवा, तं गच्छामो णं देवा ० ! धन्नस्स सत्यवाहस्स गिहं विलुंपामो तुब्भं विपुले धणकणग जाव सिलप्पवाले ममं सुंसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स० पडिसुणेति,
तते णं से चिलाए चोरसेनावती तेहिं पंचहिं चोरसएहिं सद्धिं अल्लचम्मं दुरूहति २
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280