Book Title: Adya Panchashaka Curni
Author(s): Haribhadrasuri, Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ C श्रावकधर्मपञ्चाशकचूर्णिः । ॥श्रेष्ठि देवचन्द्र लालभाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्कः १०२ ।। आद्य(श्रावकधर्म)पश्चाशकचर्णेरुपोद्घातः। उपोद्: घातः । RECOREGISTRAC%AE%ACTERICA णमो वीयरायाणं । विदन्तु विद्वांसः-अयं ग्रन्थ आद्यपञ्चाशकचूर्णिः । भवविरहाकलाञ्छितग्रन्थप्रणेतृभिः श्रीहरिभद्रसूरिवरैरेकोनविंशति-पञ्चाशकरूपश्रीपञ्चाशकप्रकरणं प्रथितम् । प्रत्येकेषु पञ्चाशकेषु पञ्चाशत्पञ्चाशद्गाथाः । अतोऽस्य पञ्चाशकमिति नाम । तस्मादस्य पञ्चाशकस्यापि पञ्चाशद्गाथा । श्री अभयदेवसूरिभिः समस्तपञ्चाशकस्य वृत्तिर्विहिता । समूला सा वृत्तिः प्राक् श्री आगमोद्धारकैर्द्विः संपादिता । तन्मध्यगतमिदमाद्यपश्चाशकम् । एतस्मिन् पञ्चाशके श्रावकधर्म वक्तुं प्रतिज्ञातत्वादस्य पञ्चाशकस्य श्रावकधर्मपश्चाशकमित्यप्यभिधानं सुप्रथितम् । एतस्य श्रीयशोदेवसूरिभिश्चूर्णिः प्रणीता । अतोऽस्मिन्नुपोद्धाते-चूर्णः प्रणेतारः १, तेषां समयः २, तस्याः प्रयोजनं महत्त्वं च ३, तत्प्रतिपाद्या विषया ४ श्च निरूप्यन्ते । प्रणेतार:-" यद्यपि यशोदेवाभिधाना विपश्चित्प्रवरास्तस्यामेव शताब्द्यां ( द्वादशशताब्द्यां ) तस्यामेव विंशतिकायामनेके, एके पञ्चाशकर्यापथिकीचैत्यवन्दनबन्दनचूर्णिप्रत्याख्यानविवरणकाराः श्रीयशोदेवाः, अन्ये प्रमाणान्तरभावप्रणेतारो देवभद्रगुरुभ्रातरो यशोदेवाः, अपरे श्रीमुनिचन्द्रशिष्यमानदेवाचार्य शिष्या यशोदेवाः, परे तु पाक्षिकसूत्रवृत्यादिविधातारो यशोदेवा इत्येवमनेके संजाताः” इति नवपदवृहद्वत्तेरुपोद्घाते (५० १) श्रीआगमोद्धारकैः प्रतिपादितम् । अतोऽत्र के चूर्णेः प्रणेतारो यशोदेवा इति प्रश्नः! अतः तन्निराकरणे प्रशस्तिद्वयं विलोक्यते । COMMERCISORORSCRECROCRACROCHECRE HainEducation Inte For Private Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 218