Book Title: Acharang Sutra Dipika Pratham Shrutskandh Author(s): Ajitdevsuri Publisher: Jinshasan Aradhana Trust View full book textPage 9
________________ आत्मगुरु निरूपण RECENSARKARIES संस्तौ पर्यटनसुमान् दिगागमनादिकं जानीयात् , यः पुनर्जानीयात् स एवाऽहं । 'सहसम्मत्ति'-सन्मत्या, कश्चिजानीते, आत्मना सह सदा या सन्मतिर्वर्तते त्या सन्मत्या, सन्मतिश्चतुर्दा-अवधिमनःपर्यायकेवलज्ञानजातिस्मरणमेदात् । कधिच परः तीर्थकृत् सर्वज्ञस्तस्य व्याकरणमुपदेशस्तेन जीवांस्तद्मदांश्च पृथिव्यादीन् गत्यागती च जानाति । अपरः पुनरन्येषातीर्थकरण्यतिरिक्तानामतिशयज्ञानिनामन्तिके जानाति, यच्च जानाति तत्सूत्रावयवेन दर्शयति-तद्यथा-पूर्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमाया उत्तरस्या उर्ध्वदिशोऽधोदिशोऽन्यतरस्या वा दिशोऽनुदिशो वाऽऽगतोऽहमस्मि, इत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकराऽन्यातिशयज्ञानिबोधितानां च ज्ञातं भवति । तथा प्रतिविशिष्टदिगागमनपरिज्ञानानन्तरमेतेषां तदपि ज्ञातं भवति, यथाऽस्ति मे शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षणः, उपपादको-भवान्तरसंक्रान्तिभाग असईगतो भोक्ता मूर्तिरहितोऽविनाशी शरीरमानन्यापीत्यादिगुणवान् आत्मेति । तथाऽस्ति च ममाऽऽत्मा योऽमुष्या दिशोऽनुदिशश्च सकाशादनुसंचरति । एवं सर्वस्याश्चानुदिशोऽनुसंचरतीति सोऽहं-स एवाऽहमित्यर्थः । अनेन च पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः, मावदिशश्चेति । सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थ त्रयो दृष्टान्ताः प्रदर्श्यन्तेसम्मत्या जानीते वरकलचीरीवत् श्रेयांस-करकण्डु-द्विमुख-नमिराजप्रभृतयः, परव्याकरणे विदमुदाहरणं-चिरसंसिट्ठोऽसि मे गोयमा चिरपरिचिओऽसि मे गोयमा, अथवा मेघकुमारवत । अन्यश्रवणे त्विदमुदाहरणं-श्रीमल्लिस्वामिना षण्णां राज्ञां विवाहार्थागतानां प्रतिबोषो दत्तः। एभिदृष्टान्तरयमात्मा गत्यागतिविशेष जानीते, विशिष्टदिग्विदिमागमनं चेति भावार्थः। द्रव्यार्थतया नित्यं पर्यायार्थतयाऽनित्यमिति, स परमार्थतयाऽऽत्मवादीति वकदर्शयति CERPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 244