Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥११॥
परियन
SikkRECIRCLE
जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकन्तारमणुपरियट्टइ', एवं स्पर्शनादिष्वप्यायोजनीयम् । एवं क्रोधमानमायालोमदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति । यत उक्तं-रागबोसकसाएहिं इंदिएहि य पञ्चहिं । दुहा वा मोहणिजेण अट्टा संसारिणो जिया ॥१॥ यदि वा ज्ञानावरणीयाद्यष्टप्रकारेण शुभाशुमेन कर्मणा आर्तः, कः१, लोक: लोकयतीति लोकः, एकद्वित्रिचतुःपञ्चेन्द्रियजीवराशि: अप्रशस्तभावोदयवी, यस्माद् यावानातः स सर्वोऽपि ' परियूनो 'निःसार:-औपशमिकादिप्रशस्तभावहीनो मोक्षसाधनहीनो वा। स च द्विधा द्रव्यभावभेदात् । तत्र सचित्तद्रव्यपरियूनो जीर्णशरीरः स्थविरको जीर्णवृक्षो वा । अचित्तद्रव्यपरियूनो-जीर्णपटादिः। भावपरियून औदयिकभावोदयात् प्रशस्तज्ञानादिभावविकलः । कथं विकलः ? अनन्तगुणपरिहाण्या । तथाहि-पश्चचतुनिद्विएकेन्द्रियाः क्रमेण झानविकलाः । तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्पन्नाः । स च विषयकषायाः प्रशस्तज्ञानघुनः किमवस्थो भवति', 'दुस्सम्बोधः' दुःखेन धर्मे प्रतिपत्ति कार्यत इति दुःसम्बोधो ब्रह्मदत्तचक्रिवत् , यदिवा दुस्सम्बोधो यो बोधयितुमशक्यः कालिकसूर्यवत् । किमित्येवं ? यतः 'अविजाणएत्ति' विशिष्टावबोधरहितः। स चैवंविधः किं विदः | ध्यादित्याह-अस्सि लोएत्ति'-अस्मिन् पृथिवीकायलोके प्रव्यथिते-प्रकर्षेण पीडिते सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, 'तत्थ तत्थत्ति'-तेषु तेषु कृषिकरणगृहादिषु 'पुढोचि'-पृथग विभिन्नेषु कार्येषु उत्पन्नेषु भो शिष्य ! पासेति पश्य इति विनेयस्य लोकाऽकार्यप्रवृत्तिः प्रदर्श्यते, आतुरा विषयकषायादिभिः पृथिवीकार्य परितापयन्ति-परिसमन्तात् | पीडयन्तीतिस्त्रार्थः। ननु चैकदेवताविशेषावस्थिता पृथिवी इति शक्यं प्रतिपत्तुं, न पुनरसंख्येयजीवसंघातरूपा इत्येतत्
CARROCALCREAGGACASS

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 244