SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥११॥ परियन SikkRECIRCLE जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकन्तारमणुपरियट्टइ', एवं स्पर्शनादिष्वप्यायोजनीयम् । एवं क्रोधमानमायालोमदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति । यत उक्तं-रागबोसकसाएहिं इंदिएहि य पञ्चहिं । दुहा वा मोहणिजेण अट्टा संसारिणो जिया ॥१॥ यदि वा ज्ञानावरणीयाद्यष्टप्रकारेण शुभाशुमेन कर्मणा आर्तः, कः१, लोक: लोकयतीति लोकः, एकद्वित्रिचतुःपञ्चेन्द्रियजीवराशि: अप्रशस्तभावोदयवी, यस्माद् यावानातः स सर्वोऽपि ' परियूनो 'निःसार:-औपशमिकादिप्रशस्तभावहीनो मोक्षसाधनहीनो वा। स च द्विधा द्रव्यभावभेदात् । तत्र सचित्तद्रव्यपरियूनो जीर्णशरीरः स्थविरको जीर्णवृक्षो वा । अचित्तद्रव्यपरियूनो-जीर्णपटादिः। भावपरियून औदयिकभावोदयात् प्रशस्तज्ञानादिभावविकलः । कथं विकलः ? अनन्तगुणपरिहाण्या । तथाहि-पश्चचतुनिद्विएकेन्द्रियाः क्रमेण झानविकलाः । तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्पन्नाः । स च विषयकषायाः प्रशस्तज्ञानघुनः किमवस्थो भवति', 'दुस्सम्बोधः' दुःखेन धर्मे प्रतिपत्ति कार्यत इति दुःसम्बोधो ब्रह्मदत्तचक्रिवत् , यदिवा दुस्सम्बोधो यो बोधयितुमशक्यः कालिकसूर्यवत् । किमित्येवं ? यतः 'अविजाणएत्ति' विशिष्टावबोधरहितः। स चैवंविधः किं विदः | ध्यादित्याह-अस्सि लोएत्ति'-अस्मिन् पृथिवीकायलोके प्रव्यथिते-प्रकर्षेण पीडिते सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, 'तत्थ तत्थत्ति'-तेषु तेषु कृषिकरणगृहादिषु 'पुढोचि'-पृथग विभिन्नेषु कार्येषु उत्पन्नेषु भो शिष्य ! पासेति पश्य इति विनेयस्य लोकाऽकार्यप्रवृत्तिः प्रदर्श्यते, आतुरा विषयकषायादिभिः पृथिवीकार्य परितापयन्ति-परिसमन्तात् | पीडयन्तीतिस्त्रार्थः। ननु चैकदेवताविशेषावस्थिता पृथिवी इति शक्यं प्रतिपत्तुं, न पुनरसंख्येयजीवसंघातरूपा इत्येतत् CARROCALCREAGGACASS
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy