Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 11
________________ ॥७॥ ' अकरिस्सं 'ति व्या० - इह त्रिकालापेक्षया कृतकारितानुमतिभिर्नव विकल्पाः संभवन्ति, ते चामी - अहमकार्ष १ अचीकरमहं २ कुर्वन्तमन्यमन्वज्ञासिषमहं ३, करोमि १ कारयामि २ अनुजानाम्यहं ३ करिष्याम्यहं १ कारयिष्याम्यहं २ कुर्वन्तमन्यमनुज्ञास्याम्यहं, एते ९ नव मनोवाक्कायैः चिन्त्यमाना २७ मेदा भवन्ति । अकार्षमहमित्यनेन विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्च स एवाऽहं मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविमोहितान्धचेतसा तचदs - कार्यानुष्ठानपरायणेन आनुकूल्यमनुष्ठितम् । उक्तं च- विश्वावलेवनडिएहिं जाई कीरंति जोवणमरणं । वयपरिणामे सरियाई ताहं हियए खुडकंति ॥ १ ॥ तथाऽचीरकर महमित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्तिं कारितः । तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं करोमीत्यादिना वचनत्रिकेण वर्त्तमानकालोल्लेखः । तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान्प्रति समनुज्ञापरायणो भविष्यामीत्यादिना वचनत्रिकेणाऽनागतका लोल्लेखः । अनेन कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्यात्मनः कालत्रयपरिणतिरूपस्याऽस्तित्वावगतिरावेदिता । अथ किमेतावत्य एंव क्रिया उताsन्या अपि सन्तीत्याह " एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति " व्याख्या -- एतावन्तः सर्वेऽपि लोके - प्राणिसंघाते कर्म्मसमारंभाः - क्रियाविशेषा ये प्रागुक्ताः कालत्रयमेदेन कृतकारितानुमतिभिश्च सर्वक्रियानुयायिना च करोतिना सर्वेषां संग्रहात् एतावन्त एव परिज्ञातव्या नाऽन्ये । तत्र ज्ञपरिज्ञया सर्वेऽपि कर्मसमारम्भा ज्ञातव्याः, प्रत्याख्यानपरिज्ञया च सर्वेऽपि पापोपादान हेतवः कर्मसमारम्भाः प्रत्याख्यातव्याः । इयता क्रिया मेदप्रकटनम् । ॥ ७ ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 244