Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ १४ अनुसन्धान ४६ कर्तव्यं समयायात-मिदमप्यधुना मया । ध्यात्वेत्युदयनो मेने, कालक्षेपाय तद्वचः ॥२०॥ जगादोज्जयिनीशस्त-मेकाक्षी साऽस्ति मे सुता । तन्न वीक्ष्या त्वया येन, त्वां विलोक्य त्रपिष्यते ॥२१॥ नृपस्तामप्युवाचेति, वत्से ! गीतकलागुरुः । अपश्यन्त्या त्वया पर्यु-पास्यः कुष्ठी यतोऽस्ति सः ॥२२॥ अथो जवनिकान्त:स्था-मिमामुदयनः सदा । शिक्षयामास गान्धर्व-कलामन्तःपुरस्थितः ॥२३|| तया प्रद्योतभूभर्तुः, शिक्षया तौ परस्परम् । नाऽपश्यतां यतश्छेको-ऽप्यतिच्छेकेन वञ्च्यते ॥२४॥ तन्निानधनाऽन्येद्युः, सा कन्या शून्यमानसा । अधीते स्माऽन्यथा सर्वाः, मनोधीनाः क्रिया यतः ॥२५।। काणेति तर्जिता तेन, कुपितेन जगाद सा । कुष्ठिनं स्वं न जानासि ? किं मां काणेति भाषसे ? ॥२६।। अचिन्ति वत्सराजेन, कुष्ठभाग यादृगस्म्यहम् । एकाक्षी तादृगेषाऽपि, स्यात्ततः किं न वीक्ष्यते ? ||२७|| अपसार्य ततः काण्ड-पटं मेघविनिर्गताम् । लेखामिवैन्दवीमेष, कन्यकां पश्यति स्म ताम् ॥२८॥ तं च वासवदत्तापि, साक्षादिव पति रतेः । प्रफुल्लाक्षी प्रमोदेन, सुभगं तमवैक्षत ॥२९॥ कन्यां नृपो नृपं कन्या-ऽप्यवलोक्य स्मितं तदा । मिथोऽनुरागसाङ्गत्य-सूचकं तेनतुर्मुदा ॥३०॥ युक्तं परिदधे ताभ्यां, रोमाञ्चकवचं तदा । यतः सुरतसङ्ग्राम-समयोऽभ्यर्ण एव हि ॥३१॥ प्रद्योततनया बाढं, कामरागवशंवदा । दूतीभूतात्मनैवेति, वत्सराजमवोचत ॥३२॥ इयत्कालं कलावन्तं, त्वामवीक्ष्याऽस्मि वञ्चिता । पद्मिनीव निशीथिन्यां, नियत्या पितृशिक्षया ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27