Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 22
________________ अनुसन्धान ४६ निन्ये निशास्तुहिनसौप्तिकभीविहस्तः, कान्ताकुचोच्चगिरिदुर्गभुवं प्रविश्य ॥१५॥ स्वं जाड्यभारमपनेतुमिवैति यत्र, व्योम्नि हतद्रुतमयं गगनाध्वगोऽपि । इत्थं न चेत् कथमहो ! परवासरत्व तुल्येऽपि यान्ति दिवसा लघुतां तदीयाः ॥१६।। तेजो रवेरपि कृशं मयि सप्रतापे, स्यात् किं तदिद्धमधुनाऽस्य रुषा किलेति । मध्यानलं तमभिषेणयितुं चकार, द्वाराणि योऽहिषु मिषेण विपादिकानाम् ॥१७॥ अर्कत्विषोऽरुणतयाऽनुमिता वसन्ति माञ्जिष्ठवाससि च वह्निशिखे च यत्र । एवं न चेदपरथा कथमेतदीयो, भोगस्तनोति जडतातनुतां जनेषु ॥१८॥ आगात्तदा मगधराजपुरं सुरङ्ग-(सुरौघै-) रासेव्यमानचरणो गणिभिर्गणैश्च । स्वामी तु दुस्तपतपःकृतकर्ममाथः, श्रीमानमेयमहिमान्तिमतीर्थनाथः ॥१९॥ श्रीश्रेणिकस्तमभिनन्तुमगादगाध भक्तिक्रमोऽथ सह चेल्लणयाऽपरेऽह्नि । शुश्राव च श्रुतिसुखप्रदमादरेण, धर्म कुकर्ममथनादमुतो जिनेन्द्रात् ॥२०॥ नाथं प्रणम्य नगरं प्रति तौ निवृत्ता वेकं जलाशयतटे प्रतिमां दधानम् । शीते पतत्यपि निरावरणं मुनीन्द्रं, जायावती नयनयोरतिथिं व्यधत्ताम् ॥२१॥ उत्तीर्य पुष्परथतस्तमवन्दिषातां, स्थित्वा क्षणं च तदुपास्तिरसेन तत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27