Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
डिसेम्बर २००८
पारं यियासुरहमस्मि ददत्यनुज्ञां,
सद्यः प्रसद्य यदि तातपदा इदानीम् ॥८॥ स्मित्वाऽभ्यधत्त नृपतिः सचिवं तमेव(वं)
वत्स ! त्वयेत्यभिदधे ननु युक्तमेव । आदत्स्व किन्तु पुरतो नृपतित्वदीक्षा,
दीक्षां गृहीतुमधुना समयो ममाऽयम् ॥९॥ स श्रेणिकं पुनरुवाच वहामि देव !
शेषामिवाऽहमनिशं शिरसा त्वदाज्ञाम् । स्वामी तु वीतभयपत्तननायकं मे,
राजर्षिमन्तिममुदायनमादिदेश ।।१०।। पुण्योदयेन कृतिनं जनकं भवन्तं,
देवं गुरुं च जिनराजमवाप्य वीरम् । दुष्कर्ममर्ममथनं यदि नाऽद्य कुर्वे,
मत्तस्ततः क इव तात ! परोऽस्ति मूढः ? ॥११।। नाम्नैव तावदभयोऽस्मि बिभेमि भीमा
दस्मात् पुनर्भवजदुःखभरादपारात् । तत्तात ! मां प्रहिणु येन जवेन यामि,
वीरं विभुं भवभृतामभयैकदुर्गम् ॥१२।। ऊचे नृपस्तदनु तं परिरभ्य पुत्र !,
प्रेम्णा यदेति निगदामि रुषा भवन्तम् । आ: पाप ! याहि परतः पुरतो मम त्वं,
दीक्षां तदा सपदि वत्स ! समाददीथा:२२ ॥१३॥ वज्रेण वज्रमिव तत् क्वचनाऽपि वेध्या,
बुद्ध्याऽऽत्मनो नृपतिबुद्धिरसौ दृढाऽपि । एवं विचिन्त्य मतिमानिति सोऽप्युवाच,
तातो यदा दिशति मेऽस्तु तदुत्तमाङ्गे ॥१४|| जज्ञेऽन्यदाऽथ तुहिनतुरतीव जैत्रे,
स्थानानि यत्र परिहृत्य पराणि बाष्पः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27