Book Title: Abhayabhyuday Mahakavya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ अनुसन्धान ४६ तत्राऽभयोऽथ मुनिपर्षदि नव्यमेकं, दृष्ट्वा मुनि विनयवामनमूतिरुच्चैः । नत्वा जिनं विरचिताञ्जलिरित्युवाच, को नाम धाम तपसां मुनिरेष नाथ !? ॥२॥ प्राह प्रभुः प्रवरमस्ति पुरं प्रतीच्या, विश्वप्रसिद्धमरुमण्डलमौलिमौलिः । हिङ्ग्वादिपण्यनिवहस्य महानिधानं, स्थानं श्रियामभय ! वीतभयाभिधानम् ॥३॥ तस्य क्षमाधिपतिरेष उदायनोऽस्म द्धर्मोपदेशमधिगम्य भवाद्विरक्तः । दध्यौ ददामि यदि राज्यमभीचयेऽहं, पुत्राय तन्नरकदुःखमयं लभेत ॥४॥ एवं कृपामयमनास्तनुजेऽथ केशि ___ सझं विधाय नृपमेष सुतं स्वजामः । आदत्त सर्वविरति हतकर्मराशे-, र्भावी भवक्षय इहैव जनुष्यमुष्य ॥५॥ बद्धाञ्जलि: पुनरपि प्रयतः सुनन्दा ___ सूनुर्व्यजिज्ञपदिदं शमिनामधीशम् । राजर्षिरत्रसमये भविताऽन्तिम: को ? । भाव्येष एव जगदे जगदेकभा ॥६॥ नत्वाऽथ नाथमभयः पुरमेत्य भूयः, संसारनाटकनटत्वभयोपगूढः । इत्थं जगाद मगधाधिपतिं विवेकी, भालस्थलप्रणयिपाणिपयोजकोशः ।।७।। श्रीवर्द्धमानजिननायकपोतवाहं, चारित्रपोतमधिरुह्य भवाम्बुराशेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27