Book Title: Aagam 45 ANUYOGDWAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४५)
प्रत
सूत्रांक
[१५० ]
गाथा:
II--II
दीप
अनुक्रम
[३११
-३१७]
अनुयो०
मलधा
रीया
॥ २३६ ॥
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं+वृत्तिः) मूलं [ १५० ] / गाथा ||११९-१२२||
Ja Education
ऽपि प्रक्षिप्यन्ते यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बू द्वीपादिरनवस्थितपल्यः कल्प्यते, अत एवाह- 'एस णं एवइए खेत्ते पल्लेत्ति यावन्तो द्वीपसमुद्रास्तैः सर्षपैः 'अप्फु पणत्ति व्याप्ता इत्यर्थः एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपत्यः सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, ततः किमित्याह - 'पढमा सलागन्ति ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवइयाणं सलागाणं असंलप्पा लोगा भरियन्ति लोक्यन्ते केवलिना दृश्यन्त इति लोका-व्याख्यानादिह वक्ष्यमाणाः शलाकापल्यरूपा गृहयन्ते, ते चैकदशशतसहस्रलक्ष कोटिप्रकारेण संलपितुमशक्या असंलप्याः, अतिबहव इत्यर्थः यथोक्तशलाकानामसत्कल्पनया भृता:- पूरितास्तथाप्युत्कृष्टं सख्येयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूठ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं संपद्यते, किन्तु यदा समशिखतया तथा ते त्रियन्ते यथा नैकोऽपि सर्वपस्तत्रापले माति तदा तद्भवतीति भावः, ननु सप्रशिखतया सर्वथा अमृतमपि लोके किं भृतमुच्यते ?, सत्यं, प्रोच्यत एव तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह-यथा कोऽत्र दृष्टान्तः ?, इति शिष्येण पृष्टे सत्युत्तरमाह-तयथा नाम कश्चिन्मञ्श्चः स्यात् स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यति यच तदुत्तरकालं तत्र मचे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षितैर्यदा संलपितुमशक्या अतिवहवः सप्र
Myan
Forane & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
वृत्तिः उपकमे प्रमाणद्वारं
~475~
| ॥ २३६ ॥

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547