Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 7
________________ आगम (१४) प्रत सूत्रांक [-] दीप अनुक्रम [-] “जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्ति:) उद्देशक: [-], प्रतिपत्ति: [ - ], मुनि दीपरत्नसागरेण संकलित ........ मूलं [-] आगमसूत्र [१४] उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः संयमप्रवृत्त्या सकलकर्मक्षयोपपत्तेः, ततः प्रयोजनवान् अधिकृताध्ययनप्रारम्भप्रयासः, अभिधेयं जीवाजीव स्वरूपं तचाधिकृताध्यय ननानो यथार्थत्वमात्रादप्यवगतं १, सम्बन्धश्च द्विधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तन्त्रायस्तर्कानुसारिण: प्रति, तद्यथावचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानं घोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता वर्द्धमानस्वामिना जीवाजीवाभिगम उक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुप्रहायातिशायिभिश्चतुर्दशपूर्वधरैस्तृतीयस्मादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्त्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्रतिपादयिष्यति २, इदं च जीवाजीवाभिगमाख्यमध्ययनं सम्यग्ज्ञानहेतुलात् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदव विन इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय खतो मङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यस्यते, वच्चादिमध्यावसानभेदात्रिधा, तन्त्रादिमङ्गलम् 'इह खलु जिगमय' मित्यादि, अत्र जिननामोत्कीर्त्तनं मङ्गलं, मङ्गलं च नामादिभेदाचतुर्धा सत्रेदं नोआगमतो भावमङ्गलम् एतचाधिकृताध्ययनार्थपारगमनकारणं, मध्यमङ्गलं द्वीपसमुद्रस्वरूपकथनं, निमिशाले हि द्वीपसमुद्रनामग्रहणं परममङ्गलमिति निवेदितं तथा च द्वीपसमुद्रादिनामग्रहणाधिकारे तत्रोक्तम् — "जो' जं पसत्यमत्थं पुच्छर तस्सऽत्यसंपत्ती " इत्यादि, | एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं " दसविहा सव्वजीवा" इत्यादिरूपं, सर्वजीवपरिज्ञानहेतुत्वेन माङ्गलिकत्वात्, तच शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थम् उक्तंच — "तं मंगलमाईए मझे पनंतर व सत्यस्स पढमं सुत्थाविग्धपारगमणाय निहिं १ यो यं प्रशस्तमर्थ पुच्छति तस्यार्थं संप्राप्तिः २ तन्मङ्गलमादी मध्ये पर्यन्ते च शस्य प्रथमं सूत्रार्थस्याविशेन पारयमनाय निर्दिष्टम् ॥ १ ॥ वृत्तिकार - रचिता जीवाजीवाभिगमस्य भूमिका For P&Pernaise Cly ~6~

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 938