Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: DeepratnasagarPage 11
________________ आगम (१४) प्रत सूत्रांक [8] दीप अनुक्रम [?] उपांगसूत्र- ३ (मूलं + वृत्ति:) प्रतिपत्ति: [१], उद्देशक: [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः “जीवाजीवाभिगम" - गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्सूत्राणां ततोऽयमर्थः - जिनैः - हिताध्यनिवर्त्तक योगसिद्वैर्गणधारिभिरनुचीर्ण-सम्यक् तदर्थाय - गमासङ्ग शक्तिगर्भानिवर्त्तकसमभावप्रात्या धर्ममेघनामकसमाधिरूपेण परिणमितं जिनानुचीर्णम्, अत एव तथारूपसमाधिभावतः समुहसितातिशयविशेषभावेन तेषां तथा सूत्रकरणशक्तिरिति दर्शयन्नाह - 'जिनप्रज्ञसं' जिनैः - हितास्यनिवर्त्तकयोगिभिः प्रज्ञप्तं तदन्यसत्वानुग्रहाय सूत्रत आचारायङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञप्तम् उक्तं च- अत्यं मासइ अरिहा सुतं गंधति राणहरा निवणं सासणरस हियद्वाए तओ सुतं पवत्तई ॥ १ ॥” इति इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं तेषामेव सम्यग्विवेययोगभावतो हिताविघातकरणात् इत्येतदुपदर्शयन्नाह - 'जिनदेशितं जिना इह हितप्रवृत्तगोत्र विशुद्धोपायाभिमुखापायत्रिमुखादयः परिगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात्, जिनेभ्यो हितप्रवृत्तादिरूपेभ्यः शुश्रूषादिभिर्व्यक्तभावेभ्यो देशितं कथितं गणधरैरपि जिनदेशितं तथा च जम्बूस्वामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत् अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकराद्युलूकादीनामनथय, आह च पैउंजियध्वं धीरेण हियं जं जस्स सव्वा । आहारोषि हु मच्छरस न पसत्थो गो भुवि ॥ १ ॥" अस्वार्थस्य संदर्शनायाह - 'जिनप्रशस्तं ' जिनानां - गोत्रत्रिशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं निरुजपध्यान्नवत् उचित सेवनया हितं जिनप्रशस्तम्, एवंभूतं जिनमतम् 'अनुविश्चिन्त्य' औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या पर्यालोच्य 'तत्' जिनमतं 'श्रद्दधानाः ' १ अर्थ भाषतेऽईन् सूत्रं प्रनन्ति गणधरा निपुणम् शासनस्य हितार्थे ततः सूत्रं प्रवर्त्तते ॥ १ ॥ २ प्रयोकव्यं धीरेष हितं भवस्य सर्वथा । आहारोऽपि च मत्स्यस्य न प्रशस्तो गरो भुवि ॥ १ ॥ For P&Praise City ~10~ CityPage Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 938