Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[४]
श्रीभगवती
सूत्रम्
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [३]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
नमोऽस्तु श्रुताय - द्वादशाङ्गीरूपायार्हत्प्रवचनाय । वण्णओत्ति (सू०४)
इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरव भयादिह तस्यालिखितत्वात् स चैवं रिद्धत्थिमियसमिद्धे, रिद्धं पुरभवनादिभिर्वृद्ध, | स्तिमितं - स्थिरं, स्वचक्रादिभयवर्जितत्वात्, समृद्धं – धनधान्यादिविभूतियुक्तत्वात् ततः पदत्रयस्य कर्मधारयः, 'पमुइयजणजाणवए' प्रमुदिता दृष्टा जना नगरवास्तव्याः जानपदाच- जनपदभवास्तत्रायाताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादिरौपपातिकात् सव्याख्यानोऽत्र दृश्यः, 'तस्स णं' ति षष्ठ्याः पञ्चम्यर्थत्वात् तसाद्राजगृहानगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छि मे त्ति उत्तरपौरस्त्य दिग्भाग ईशानकुणिविदिग्भागे गुणशिलकं नाम चैत्यं व्यन्तरायतनं 'होत्थ'त्ति बभूव, इह च यन्न व्याख्यास्यते तत्प्रायः सुगमत्वादित्यवसेयमिति ।
ते कालेणं तेणं समर्पणं समणेति (सू० ५ )
“श्रमु तपसि खेदे चे 'ति वचनात् श्राम्यति - तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा वर्तत इति समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात्, 'भगवं'ति भगवान् ऐश्वर्यादियुक्तः, पूज्य इत्यर्थः, 'महावीरे' त्ति महांवासौ दुर्जयान्तररिपुतिरस्करणाद्वीरचेति महावीरः 'आदिकरे' त्ति आदितो धर्मम्-आचारादिश्रुतं करोतीत्यादिकरः 'सहसंबुद्धे' त्ति सह-आत्मनैव संबुद्धो, नान्योपदेशत इत्यर्थः 'धम्मवरचाउरंत'त्ति त्रयः समुद्रातुर्थश्च हिमवान् एते चत्वारोऽन्ताः पृथिव्यन्ताः तेषां स्वामी यथा चक्रवर्ती तथा भगवान् चतुर्धर्मचक्रवतीं इति, 'तेण 'मित्यादि शक्रस्तवव्याख्यानं सुगमत्वान्न वित्रियते ।
~11~
१ शतके
१ उद्देशः
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 312