Book Title: Subhadra Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
Catalog link: https://jainqq.org/explore/600418/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ IONORMAKWANITARIVARIKIWARITAINIKITAAAAAAAAAAAIANTARAN // श्रीजिनाय नमः // // सुभद्राचरित्रम् // (गद्यबद्ध) (द्वितीयावृत्तिः) HERE (कर्ता-श्रीशुभशीलगणी) -छपावी प्रसिद्ध करनारःपण्डित हीरालाल हंसराज-जामनगर. 3 (सने 1935) मुद्रक:-श्रीजैनभास्करोदय प्रिन्टिंग प्रेस. किमत 0-8-0 (वीरसंवत् 2461) SWILWILWALI Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ सुभद्रा चरित्रं // 1 // // 1 // // श्रीजिनाय नमः॥ // अथ श्रीसुभद्राचरित्रं प्रारभ्यते॥ (कर्ता-श्रीशुभशीलगणि) छपावी प्रसिद्ध करनार-पण्डित श्रावक हीरालाल हंसराज (जामनगरवाला) शीलं पालयतां पुंसां / शुद्धभावेन संततं // वशीभवंति गीर्वाणाः / सुभद्राया इवाचिरात // 1 // वसन्तपुराख्ये नगरे जितज्ञत्रुनामा राजा राज्यं करोतिस्म, तस्य नृपस्य जैनधर्मपालको जिनमतिना-2 दमा श्रेष्ठी मंत्रिप्रवरो विद्यते, तस्प च परमाहती श्राविका तत्वमालिनीनाम्नी प्रियास्ति. ततो शुभस्वप्न सुचिता सुभद्राख्या पुत्री बभूव. क्रमेण संप्राप्तयौवना सा देवांगनेवातिमनोहररूपलावण्यधारिणी यूनांम| नांसि व्याकुलयामास.सर्वकलाकलितोऽसो जैधनमैकलीनमनसा सर्वदा देवपूजा गुरुभक्ति प्रतिक्रमणादिका. Page #4 -------------------------------------------------------------------------- ________________ +% सुभद्रा चरित्रं // 2 // // 2 // E-LOGr%A र्यदक्षा बभूव. अथ स जिनमतिः श्रेष्टी तां निजसुतां सुभद्रा केनचिजैनधर्मविदा पुरुषेण सह परिणामयितुं समीहते. अथास्यदा चंपापुरवास्तव्यो बौधधर्मवासितांतःकरणो बुद्धदासाख्यो युवा व्यापारी व्यापारार्थ तत्र वसंतपुरनगरे समाययो. तत्र स विविधक्रयाणकव्यापारं कुर्वन् भूरिधनं समर्जयतिस्म. अथै| कदा स बुद्धदासो मागें व्रजन्ती, सखीसमूहोपेतां, रूपनिर्जितसुरांगनां च तां सुभद्रां विलोक्य मदनातुरः | कंचिन्नरं पप्रच्छ, भो पुरुषोत्तम ! कस्येयं पुत्री! च सा विवाहितास्ति ? वा कुमारिकास्ति ? तेनोक्तं भो बुद्ध- | दास! इयं जिनमत्यभिधस्य श्रेष्ठिनः सुभद्राख्या तनया वर्तते, किंच साद्यापि कुमारिकैवास्ति. तस्य जनकश्च तां जैनधर्मविदा शुद्धश्रावकेण सहैव परिणाययितुं समीहते, नान्यस्य परधर्मिणः कस्यापि पुरुषस्य स निजपुत्रीं दास्यति. तत् श्रुत्वा स बुद्धदासो दध्यो, अथाहं कथंचिदपि जैनोभूयैतां परिणया मि, यतो मे मानसं तस्यामेव विलग्नमस्ति. जनीभूतं च मां विलोक्य स जिनमतिश्रेष्ट्यपि सुखेनेमां निजपुत्री सुभद्रां दास्यति, इति विचित्य स बुद्धदासो जिनधर्मसम्बन्धिशास्त्राणि पठित्वा सामायिकप्र. तिक्रमणादिजैनधर्मप्रियासु कुशलो बभूव. एवं शुद्धां श्राद्धसामाचारी शिक्षयित्वा सुश्राधीभूय स जिन M -G Page #5 -------------------------------------------------------------------------- ________________ ॐAA% // 3 // सुभद्रा देवपूजां करोति, ततो धर्मशालायां गत्वा जैनमनिपावे धर्मशास्त्रश्रवणं करोति. एवं नित्यं धर्मक्रियां कुर्वतं तं तादृशं सुश्रावकं विलोक्य स जिनमतिः श्रेष्ठी निजगृहे देवपूजाद्यर्थमाकारयामास. एवं श्रेष्ठिसमाहृतः स बुद्धदासस्तत्र श्रेष्टिगृहेऽभ्येत्य यतनापूर्वकं निजशरीरं प्रक्षाल्य चंदनशनपत्रादिभिर्जिनबिंबानि पूजयामास, ततो मधुरस्वरौनिजहृदयात् कृत्रिमं शुद्धभावं दर्शयन् स जिने शानां स्तवनं चकार. ततश्चात्याग्रहपूर्वकं श्रेष्ठिना भोजनाय निवेशितः स बुद्धदासः भोजनं परिल वेषयतः श्रेष्ठिनो जगो, भो श्रेष्ठिन् ! अद्य मम विकृतियुतं भोजनं न कल्पते, मयाद्याचाम्लमेव कर्तव्य मस्ति, इति श्रुत्वा श्रेष्ठिना निर्विकृतिक रुक्षान्नं तस्मै परिवेषितं. तन्मिताहारं विधाय प्रासुकं जलं च पीत्वा तेन तत्रैव स्थितेन चतुर्विधाहारप्रत्याख्यानं पुनः सूर्योदयावधि विहितं. एवं तं जैनधर्मकुशलं, क्रियापात्रं, पदे पदे च जोवयतनापरं विलोक्य तस्य तया मायया वंचितः श्रेष्ठी चिंतयामास, अहो ! अयं धर्मात्मा युवा पुरुषो मम पुत्र्याः सुभद्रायाः परिणयनार्थ सर्वथा योग्योऽस्ति. यतः-जिनेंद्रधर्मवेत्तारं / दातारं विनयान्वितं // कर्तारं यतनां सर्व-जीवेषु करुणान्वितं // 1 // सरलं स्ववपूरूप-लक्ष्मीनिर्जित -14 Page #6 -------------------------------------------------------------------------- ________________ सुभद्रा // 4 // मन्मथं // पुज्यर्थ विरला एव / लभंते वरमंगिनः // 2 // युग्मं // इत्यादि विचिंत्य स्वहृदये प्रमुदितः स | श्रेष्ठी तं बुद्धदासंप्रति प्राह, भो बुद्धदास ! त्वं धर्मज्ञो गुणज्ञश्चासि, इयं मे कन्या सुभद्रा सांप्रतं यौवनाभिमुखा जातास्ति, ततो यदि त्वमेनामंगीकुर्यास्तदा लक्ष्मीकृष्णयोरिव, शशिरोहिण्योरिव युवयोर.. भिन्नप्रेमरसपूर्णः संबंधो भवेत्. एवंविधां श्रेष्टिनः प्रार्थनां निशम्य निजहृदि हृष्टेन तेन बुद्धादासेनापि तदीयवचः स्वीकृतं. ततो नैमित्तिकैरादिष्टे निकटे शुभ दिवसे श्रेष्ठिना महात्सवपूर्वकं तेन बुझ्दासेन सह निजपुत्र्याः सुशीलायाः सुभद्राया विवाहो विहितः. एवं तां सुभद्रां परिणीय स तयासह विविधभो. गविलासाननुभवन् स्थितः. कियदिनानंतरमुपार्जितभूरिद्रव्यः स बुद्धदासः सकलं श्वशुरादिवर्गमुकलाप्य स्वपुरंप्रति यियासुर्निजपन्या सुभद्रया सह ततः प्रस्थानमकरोत्. क्रमेण कुशलेन मार्गमुल्लंघयन स स्वनगरे समेत्य मातापित्रोमिलितः. परमानंदं प्राप्ताभ्यां मातापितृभ्यामपि गृहे महोत्सवः कृतः. सुभद्रापि निजश्व पादयोः पतित्वा निजविनयं प्रकटीचकार, अथ द्वितीयदिने प्राप्तरुत्थाय सुभद्रा स्नानशुचीभृतां जिनेंद्रभवने गत्वा जिनर्विवानि प्रणम्य, जैनमनिभ्यश्चापि वंदनं विधाय गृहे समागता. तदा श्वश्रस्तां. Page #7 -------------------------------------------------------------------------- ________________ चरित्रं प्रति जगो, वत्से ! अस्माकं कुले तु बुद्ध एव देव आराधनीयो विद्यते, अतस्त्वयाथो जिनमंदिरादिष्वन्यत्र कुत्रापि न गंतव्यं. तत श्रुत्वा वजाहतेव दुःखितहृदया सा सुभद्रा दध्यो. अहो! कपटं विधाया-18 | हमनेन भर्चा परिणीता, नुनमेष बौद्धधर्मानुयायी वर्तते, अथ किं कर्तव्यं ? परं यद्भावि तद्भवतु, मया | तु निजहितमेवाचरणीयं, यतः-सर्वथा स्वहितमाचरणीयं / किं करिष्यति जनो बहुजल्पः // विद्यते - न हि कश्चिदुपायः / सर्वलोकपरितोषकरो यः // 1 // अथ श्वश्रूवचनमवगणय्य सा सुभद्रा तु जिनम दिरेषु जिनबिंबान्येव नंतुं प्रयाति. जैनमुनिभ्यश्च वंदनं विदधाति. एवं तां निजाज्ञामवगणयंती निरीपक्ष्याभिभूता श्वश्रूयथा तथा वदति, निरपराधां च तां विगोपयति. तद दृष्ट्वा बुद्धदासेन सा निजप्रिया सुभद्रा पृथग्गृहे स्थापिता, तत्र च सुखं स्थिता सा जिनेंद्र पूजयंतो, जैनमुनींश्च प्रतिलाभयंती धर्मकोयेष्वेव तत्परा बभूव, इतोऽन्यदा कश्चिजिनकल्पी जैनसाधुर्मासक्षपणपारणे एकाक्येव तस्याः सुभद्राया। गृहे भिक्षार्थ समाचातः, तं मनींद्रं प्रतिलाभयंती सुभद्रा चक्षुःपतिततृणेन पीड्यमानं विलोक्य विचा| रयामास, अहो अयं जिनकल्पविहारी मुनींद्रो निजचक्षुषस्तुणापकर्षणपराङ्मुखो वर्तते, इदं च तृणं चे. Page #8 -------------------------------------------------------------------------- ________________ सुभद्रा AR // 6 // // 6 // +CriॐॐM- त्तस्य चक्षुषि स्थास्यति, तदास्य चक्षुर्गमिष्यत्येव. इति विचार्य तया सुभद्राया यतनापूर्वक लाघवेन | चरित्रं निजजिह्वया तस्य मुनेनेत्रात् तृणं कर्षितं, तदैवं कुर्वत्याश्च तस्या भालस्थमाईकुंकुमतिलकं तस्य मुने. ललाटे लग्नं. स मुनिस्तु भिक्षां गृहीत्वा ततो निःसृतः. तदा कुंकुमतिलकांकितं मुनिभालं निरीक्ष्य छिद्रान्वेषणपरा तस्याः सुभद्रायाः श्वश्रूः साक्षाध्यंतरीव निजभुजावुल्लालयंतो महता स्वरेण पूस्कारं कुर्वती | पारिवेश्मिकजनान् मेलयामास, निजपुत्रं बुद्धदासमपि तत्र समाहूग तं तिलकांकितं मुनि दर्शयामास. एवं सा तां सुभद्रां विगोपयंती निजतनयं प्राह, वत्स ! इदं तव वध्या दुराचारं विलोकय ? नूनमियं | मुधैव निजात्मानं जैनधर्मपरं प्रकटयंती त्वां विप्रतार्यानेन साधुना सह विषयसेवनं करोति. इतस्तत्र | सर्वमपि कुटुंब मिलितं, वधूचेष्टितं च विलोक्य कुटुंबजनाः प्राचुः, नूनभियं वधूः सुभद्रा स्वैरिणी कुलटैव विद्यते, अनयात्मनः कुलं कलंकितं. एवं कुटुंबादिजनप्रोक्तानि वाक्यानि निशम्य विलक्षीभूनो बुद्वदासोऽपि तस्यां विरक्तो जातः, एवं कुटुंबादिपारिवेश्मिकजनैर्निजभा च विडंब्यमाना, तिरस्कृता च सुभद्रा दध्यो, अहो ! सांप्रतं मम पूर्वकृतं किमपि दुष्कृतं प्रकटीभूतं ! यदिदं धर्मकार्य कुर्वत्या ममोपरि है। R2-2 - 2: Page #9 -------------------------------------------------------------------------- ________________ F सुभद्रा // 7 // // 7 // AC%Email-Har% मुधैवायं कलंकः चटितः, अथ किं करोमि ? कुत्र वा यामि ? मम धर्मस्यैव शरणमस्तु, इत्युक्त्वा सा चरित्रं दथ्यौ, यावच्छासनदेवी मदीयमेतं कलंक नोत्तारयिष्यति, तावन्मया कायोत्सगों न मोच्यः, इति ध्या-|| त्वा सा सुभद्रा निश्चलमानसा निःकंपितशरीरा निजगृहमध्ये कायोत्सर्गध्याने तस्थौ. ततस्तस्याः सत्व: साहसेन संतुष्टा शासनदेवी प्रकटीभूय प्राह, हे वत्से ! त्वं निर्दोषासि, अथ त्वं कायोत्सर्ग पारय? एवं | शासनदेव्यादिष्टा सा सुभद्रा कायोत्सगे पारयित्वा तां देवींप्रति प्राह, भो मातः! यूयं मदीयमिमं कलंक दूरीकुरुत? यथा जैनधर्मविगोपनं न स्यात्. तत् श्रुत्वा सा शासनदेवी जगो, भो वत्से ! त्वं खेदं मा कुरु? नूनं यथा प्रातस्तवायं कलंक उत्तरिष्यति, तथैवाहं करिष्यामि. अथ यथाहं गगनांगणस्था कथयामि, तथा त्वया कर्तव्यं, तत् श्रत्वा सा सुभद्रा हृष्टा, शासनदेव्यप्यदृश्यतां प्राप्ता. अथ प्रातरुत्थाय यावन्नगरप्रतोलीपालकाः प्रतोलीरुदघाटयंति, तावन्मनागपि चतसृणां प्रतोलीनां कपाटा नोद्घ| टंतिस्म. तत् श्रुत्वा निजहदि चमत्कृतो नृपः स्वयं तत्रागत्य प्रतोलीद्वारमुद्घाटगितुमुद्यमं करोतिस्म.. कृतबहुप्रयत्नोऽपि स नृपः कथमपि तदुद्घाटनसमर्थो न बभूव. ततः कोलाहलपराः सर्वेऽपि लोका व्या. Page #10 -------------------------------------------------------------------------- ________________ सुभद्रा चरित्रं // 8 // // 8 // कुला बभूवुः. राजादिभिलोंकैमिलित्वा नानाविधानि विधिना शांतिकार्याणि कारितानि, तथापि प्रतोलोकपाटाः कथंचिदपि नोघटिताः ततो राजापि विलक्षोऽभूत. इतो दिव्यप्रकाशपूर्वकं गगनमंडले समागता शासनदेवी नृपादिसर्वलोकेभ्यः कथयामास, भोलोकाः ! नगरमध्ये या स्त्री सती भविष्यति, सा | चेदामसूत्रतंतुनिबद्धया चालिन्या कुपमध्याजलमाकर्ण्य, तजलेन प्रतोलीकपाटानाच्छोटयिष्यति, तदैव | ते उद्घटिष्यंति, अन्यथा केनापि प्रकारेण नोद्घटिष्यंति, तत् श्रुत्वा नृपेण नगरमध्ये पटहोद्घोषणा | कारिता, या सती स्त्री देवयुक्तविधिना पुरप्रतोलीद्वारोद्घाटनं करिष्यति, तस्यै राजा भूरिसन्मानं दा. | स्यति. एवंविधा पटहोद्घोषणां निशम्यानेकपौरमहिला गर्वेण निजसतीत्वं मन्यमाना आमसूत्रतंतुनिबद्राश्चालिनीगृहीत्वा कूपोपकंठं प्राप्ताः क्रमेणैकेका सुंदरी तथाविधविधिना तत् कार्य कर्तु प्रवृत्ता, परं तासां सर्वासां चालिनीबद्धाः सूत्रतंतव एव कूपोपकंठे त्रुटितुं लग्नाः, तदा कूपमध्याजलाकर्षणं तु दूर| मेव स्थितं, एवं जनैर्विहस्यमानानां तासां स्त्रीणां कापि तत्कार्यकरणसमर्था नाभूत्. प्रांते तत्कार्यकरण: सोद्यमा नृपराइयोऽपि निष्फलीभूतप्रयत्ना जाताः. तद् दृष्ट्वा नृपयुताः सर्वेऽपि लोकाः सचिंता अभवन्, Page #11 -------------------------------------------------------------------------- ________________ सुभद्रा PHOGrcॐॐॐ2-% इतः सा सुभद्रा निजश्वश्रृंप्रत्यवक्, हे मातः ! यदि भवतीभ्यो रोचते, तदाहं पुरप्रतोलीकपाटोद्घाटन करोमि. तत् श्रुत्वा राक्षसीव कोपाकुलहृदया सा जगाद, अरे! दुष्टे! भवत्याः सतोत्वं ह्यस्तनदिने एव 8 मया च सर्वलोकेरपि ज्ञातमस्ति, तत्कलंकेन नुनमसंतुष्टेव सांप्रतं किं राजादीनामपि निजदुराचरणं द. शयितुं समीहसे ? निजोत्तरीयेण मुखमाच्छाद्य मुकीभूय गृहकोणे एव तिष्ठ ? अथ विशेषतः कुटुंबं मा कलंकय ? एवं तया निर्भसितापि सुभद्रा श्वधूप्रति सविनयं प्राह, हे मातः! भवतीभिः पूज्याभिर्यत्किं. चिजल्प्यते, तत्प्रमाणं, मया चेत् प्रत्युत्तरो दीयते, तदा मम शोभा न भवेत्. ततो यदि भवतीभिरादेशो दीयते, तदाहं भवत्याः प्रसादान्नूनं पुरप्रतोलीकपाटानुद्घाटयिष्यामि. एवंविधां नम्रां विनयान्वितां च निजवधूवाचं निशम्याश्चर्य प्राप्ता, किंचित् शांता च सा हृदये हसंती तिरस्कारपूर्वकं प्राह, अरे ! यद्येवं दुराचारपरापि निजात्मनि सतित्वं मन्यमानासि, तर्हि द्रुतं पुरप्रतोलीकपाटानुद्घाटय ? यथा ते शुद्धं सतीत्वं पश्यामः. एवं सहास्यव्यंग्योक्त्यापि तस्या अनुमति समवाप्य सुभद्रया स पटहः स्पृष्टः. ततः स्नातपरिहितनिर्मलवस्त्रा सुभद्रा कौतुकार्थिश्वश्रूप्रभृतिपौरनारीगणपरिवृता, सवि Page #12 -------------------------------------------------------------------------- ________________ चरित्रं // 10 // सुभद्रा / / स्मयं नृपादिपौरब्रजेश्च निरीक्ष्यमाणा कूपोपकंठं प्राप्ता. ततस्तया पंचपरमेष्टिनमस्कारं स्मृत्वा, शासनदेवीं पाच हृदये ध्यात्वा, आमसूत्रतंतुभिश्चालिनी वध्वा कूपे च निःक्षिप्य ततो जलमाकर्षितं. तदा न च सू15 तंतवस्त्रुटिताः, न च चालिन्या बिंदुमात्रमपि जलं गलितं. राजादयः सर्वलोकाश्चाश्चर्यशंकुना कोलि ता इव स्तंभीभूता विस्फारितनयना विलोकमाना एव तत्र स्थिताः. तस्याः श्वश्रूरपि विलक्षीभृय श्यामानना तत्सर्व विलोकयामास. ततो जलभृतां तां चालिनी निजहस्ते धृत्वा नरनारीगणेः परिवृता, सुवासिनीभिर्गीयमानगुणा सा सुभद्रा पुरप्रतोलीप्रति चचाल. तत्रागत्य स्मृतपंचनमस्कारासौ तच्चालिनीतोंज. लिना जलमादाय यावत् प्रतोलीकपाटानाच्छोटयति, तावत्तूर्णमेव द्वावपि कपाटो स्वयमेव ताटकृत्योद्घ| टितौ, प्रहृष्टैः पौरगणैश्च जयजयारावपूर्वकं तंडुलपुष्पादिभिः सा वर्धापिता. अथैवं तया महासत्या सुभद्रया प्रतोलीत्रयकपाटास्तथैव विधिनोद्घाटिताः, ततो गगनांगणस्थितया शासनदेव्या प्रकटीभृय नृपादिपौरसमक्षं सुभद्रायै प्रोक्तं, भो वत्से ! अथेवंविधा या काचित् सतीत्वगर्वमंडिता ललना भविष्यति, सा चतुर्थीप्रतोलिकपाटावुद्घाटयतु, परमद्यापि कयापि तो कपाटावनुद्घाटितावेव तत्पुरे दृश्येते. तत ॐॐॐEXes + -- - Page #13 -------------------------------------------------------------------------- ________________ सुभद्रा // 11 // EHECE स्तया शासनदेव्या लोकेभ्यः प्रोक्तं, यः कोऽप्यस्या सुभद्रायाः सत्या विरुकं चिंतयिष्यति करिष्यति वा, तस्य मया शिक्षा दास्यते. ततोऽवनीपतिप्रमुखः सोऽपि जनो निजचेतसि चमत्कृतस्तस्थाः सतीत्वं स्तुवन् जैनधर्म स्वीचकार. श्वश्रूरप्युत्थाय तां निजवधूं क्षमयामास. सुभद्रा तु गर्वलेशमप्यदधाना श्वश्रू नमतिस्म. बुद्धदासादिसकलोऽपि कुटुंबजनो बौद्धधर्म परिहृत्य जैनधर्मपरायणो बभूव. कियत्कालमेवं सखेन गार्हस्थ्यधर्म परिपाल्य सा सुभद्रा सती गुरु पार्श्वे दीक्षां गृहित्वा, कमेण तीव्रतपोऽग्निना निजक| मैंधनानि प्रज्वाल्य मुक्तिपुरीं ययौ. // इति श्रीसुभद्राचरित्रं समाप्तं ॥श्रीरस्तु // आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रन्थमांथो उद्धरीने तेनी मूलभाषामा सुधारो वधारो करी जामनगरवाळा पंडित श्रावक हीरालाल हंसराजे पोताना श्रीजैनभास्करोदय प्रेसमां स्वपरना श्रेयने माटे छोपी प्रसिद्ध करेल छे // श्रीरस्तु // // समातोऽयं ग्रन्थो गुरुश्रीमच्चारित्रविजयसुप्रसादात् // EPARA- KA-4 M BER% Page #14 -------------------------------------------------------------------------- ________________ MISCHWICIPISNGI+CHOIGUGUMISNOJ Die eerste ge geegeegegesseretge touteserregereneset.ee CISIONSNESIS CV. 16.GOV : ll gra sirgulaRa FT44 11 CIWNOIDIDUS はははははははまさにTOEOEOESPEE ははははははははははははは LIPOSISISIAIPIGIOOGGIOONOJ