________________ सुभद्रा // 4 // मन्मथं // पुज्यर्थ विरला एव / लभंते वरमंगिनः // 2 // युग्मं // इत्यादि विचिंत्य स्वहृदये प्रमुदितः स | श्रेष्ठी तं बुद्धदासंप्रति प्राह, भो बुद्धदास ! त्वं धर्मज्ञो गुणज्ञश्चासि, इयं मे कन्या सुभद्रा सांप्रतं यौवनाभिमुखा जातास्ति, ततो यदि त्वमेनामंगीकुर्यास्तदा लक्ष्मीकृष्णयोरिव, शशिरोहिण्योरिव युवयोर.. भिन्नप्रेमरसपूर्णः संबंधो भवेत्. एवंविधां श्रेष्टिनः प्रार्थनां निशम्य निजहृदि हृष्टेन तेन बुद्धादासेनापि तदीयवचः स्वीकृतं. ततो नैमित्तिकैरादिष्टे निकटे शुभ दिवसे श्रेष्ठिना महात्सवपूर्वकं तेन बुझ्दासेन सह निजपुत्र्याः सुशीलायाः सुभद्राया विवाहो विहितः. एवं तां सुभद्रां परिणीय स तयासह विविधभो. गविलासाननुभवन् स्थितः. कियदिनानंतरमुपार्जितभूरिद्रव्यः स बुद्धदासः सकलं श्वशुरादिवर्गमुकलाप्य स्वपुरंप्रति यियासुर्निजपन्या सुभद्रया सह ततः प्रस्थानमकरोत्. क्रमेण कुशलेन मार्गमुल्लंघयन स स्वनगरे समेत्य मातापित्रोमिलितः. परमानंदं प्राप्ताभ्यां मातापितृभ्यामपि गृहे महोत्सवः कृतः. सुभद्रापि निजश्व पादयोः पतित्वा निजविनयं प्रकटीचकार, अथ द्वितीयदिने प्राप्तरुत्थाय सुभद्रा स्नानशुचीभृतां जिनेंद्रभवने गत्वा जिनर्विवानि प्रणम्य, जैनमनिभ्यश्चापि वंदनं विधाय गृहे समागता. तदा श्वश्रस्तां.