SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ चरित्रं प्रति जगो, वत्से ! अस्माकं कुले तु बुद्ध एव देव आराधनीयो विद्यते, अतस्त्वयाथो जिनमंदिरादिष्वन्यत्र कुत्रापि न गंतव्यं. तत श्रुत्वा वजाहतेव दुःखितहृदया सा सुभद्रा दध्यो. अहो! कपटं विधाया-18 | हमनेन भर्चा परिणीता, नुनमेष बौद्धधर्मानुयायी वर्तते, अथ किं कर्तव्यं ? परं यद्भावि तद्भवतु, मया | तु निजहितमेवाचरणीयं, यतः-सर्वथा स्वहितमाचरणीयं / किं करिष्यति जनो बहुजल्पः // विद्यते - न हि कश्चिदुपायः / सर्वलोकपरितोषकरो यः // 1 // अथ श्वश्रूवचनमवगणय्य सा सुभद्रा तु जिनम दिरेषु जिनबिंबान्येव नंतुं प्रयाति. जैनमुनिभ्यश्च वंदनं विदधाति. एवं तां निजाज्ञामवगणयंती निरीपक्ष्याभिभूता श्वश्रूयथा तथा वदति, निरपराधां च तां विगोपयति. तद दृष्ट्वा बुद्धदासेन सा निजप्रिया सुभद्रा पृथग्गृहे स्थापिता, तत्र च सुखं स्थिता सा जिनेंद्र पूजयंतो, जैनमुनींश्च प्रतिलाभयंती धर्मकोयेष्वेव तत्परा बभूव, इतोऽन्यदा कश्चिजिनकल्पी जैनसाधुर्मासक्षपणपारणे एकाक्येव तस्याः सुभद्राया। गृहे भिक्षार्थ समाचातः, तं मनींद्रं प्रतिलाभयंती सुभद्रा चक्षुःपतिततृणेन पीड्यमानं विलोक्य विचा| रयामास, अहो अयं जिनकल्पविहारी मुनींद्रो निजचक्षुषस्तुणापकर्षणपराङ्मुखो वर्तते, इदं च तृणं चे.
SR No.600418
Book TitleSubhadra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1935
Total Pages14
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy