________________ F सुभद्रा // 7 // // 7 // AC%Email-Har% मुधैवायं कलंकः चटितः, अथ किं करोमि ? कुत्र वा यामि ? मम धर्मस्यैव शरणमस्तु, इत्युक्त्वा सा चरित्रं दथ्यौ, यावच्छासनदेवी मदीयमेतं कलंक नोत्तारयिष्यति, तावन्मया कायोत्सगों न मोच्यः, इति ध्या-|| त्वा सा सुभद्रा निश्चलमानसा निःकंपितशरीरा निजगृहमध्ये कायोत्सर्गध्याने तस्थौ. ततस्तस्याः सत्व: साहसेन संतुष्टा शासनदेवी प्रकटीभूय प्राह, हे वत्से ! त्वं निर्दोषासि, अथ त्वं कायोत्सर्ग पारय? एवं | शासनदेव्यादिष्टा सा सुभद्रा कायोत्सगे पारयित्वा तां देवींप्रति प्राह, भो मातः! यूयं मदीयमिमं कलंक दूरीकुरुत? यथा जैनधर्मविगोपनं न स्यात्. तत् श्रुत्वा सा शासनदेवी जगो, भो वत्से ! त्वं खेदं मा कुरु? नूनं यथा प्रातस्तवायं कलंक उत्तरिष्यति, तथैवाहं करिष्यामि. अथ यथाहं गगनांगणस्था कथयामि, तथा त्वया कर्तव्यं, तत् श्रत्वा सा सुभद्रा हृष्टा, शासनदेव्यप्यदृश्यतां प्राप्ता. अथ प्रातरुत्थाय यावन्नगरप्रतोलीपालकाः प्रतोलीरुदघाटयंति, तावन्मनागपि चतसृणां प्रतोलीनां कपाटा नोद्घ| टंतिस्म. तत् श्रुत्वा निजहदि चमत्कृतो नृपः स्वयं तत्रागत्य प्रतोलीद्वारमुद्घाटगितुमुद्यमं करोतिस्म.. कृतबहुप्रयत्नोऽपि स नृपः कथमपि तदुद्घाटनसमर्थो न बभूव. ततः कोलाहलपराः सर्वेऽपि लोका व्या.