________________ सुभद्रा चरित्रं // 8 // // 8 // कुला बभूवुः. राजादिभिलोंकैमिलित्वा नानाविधानि विधिना शांतिकार्याणि कारितानि, तथापि प्रतोलोकपाटाः कथंचिदपि नोघटिताः ततो राजापि विलक्षोऽभूत. इतो दिव्यप्रकाशपूर्वकं गगनमंडले समागता शासनदेवी नृपादिसर्वलोकेभ्यः कथयामास, भोलोकाः ! नगरमध्ये या स्त्री सती भविष्यति, सा | चेदामसूत्रतंतुनिबद्धया चालिन्या कुपमध्याजलमाकर्ण्य, तजलेन प्रतोलीकपाटानाच्छोटयिष्यति, तदैव | ते उद्घटिष्यंति, अन्यथा केनापि प्रकारेण नोद्घटिष्यंति, तत् श्रुत्वा नृपेण नगरमध्ये पटहोद्घोषणा | कारिता, या सती स्त्री देवयुक्तविधिना पुरप्रतोलीद्वारोद्घाटनं करिष्यति, तस्यै राजा भूरिसन्मानं दा. | स्यति. एवंविधा पटहोद्घोषणां निशम्यानेकपौरमहिला गर्वेण निजसतीत्वं मन्यमाना आमसूत्रतंतुनिबद्राश्चालिनीगृहीत्वा कूपोपकंठं प्राप्ताः क्रमेणैकेका सुंदरी तथाविधविधिना तत् कार्य कर्तु प्रवृत्ता, परं तासां सर्वासां चालिनीबद्धाः सूत्रतंतव एव कूपोपकंठे त्रुटितुं लग्नाः, तदा कूपमध्याजलाकर्षणं तु दूर| मेव स्थितं, एवं जनैर्विहस्यमानानां तासां स्त्रीणां कापि तत्कार्यकरणसमर्था नाभूत्. प्रांते तत्कार्यकरण: सोद्यमा नृपराइयोऽपि निष्फलीभूतप्रयत्ना जाताः. तद् दृष्ट्वा नृपयुताः सर्वेऽपि लोकाः सचिंता अभवन्,