________________ सुभद्रा PHOGrcॐॐॐ2-% इतः सा सुभद्रा निजश्वश्रृंप्रत्यवक्, हे मातः ! यदि भवतीभ्यो रोचते, तदाहं पुरप्रतोलीकपाटोद्घाटन करोमि. तत् श्रुत्वा राक्षसीव कोपाकुलहृदया सा जगाद, अरे! दुष्टे! भवत्याः सतोत्वं ह्यस्तनदिने एव 8 मया च सर्वलोकेरपि ज्ञातमस्ति, तत्कलंकेन नुनमसंतुष्टेव सांप्रतं किं राजादीनामपि निजदुराचरणं द. शयितुं समीहसे ? निजोत्तरीयेण मुखमाच्छाद्य मुकीभूय गृहकोणे एव तिष्ठ ? अथ विशेषतः कुटुंबं मा कलंकय ? एवं तया निर्भसितापि सुभद्रा श्वधूप्रति सविनयं प्राह, हे मातः! भवतीभिः पूज्याभिर्यत्किं. चिजल्प्यते, तत्प्रमाणं, मया चेत् प्रत्युत्तरो दीयते, तदा मम शोभा न भवेत्. ततो यदि भवतीभिरादेशो दीयते, तदाहं भवत्याः प्रसादान्नूनं पुरप्रतोलीकपाटानुद्घाटयिष्यामि. एवंविधां नम्रां विनयान्वितां च निजवधूवाचं निशम्याश्चर्य प्राप्ता, किंचित् शांता च सा हृदये हसंती तिरस्कारपूर्वकं प्राह, अरे ! यद्येवं दुराचारपरापि निजात्मनि सतित्वं मन्यमानासि, तर्हि द्रुतं पुरप्रतोलीकपाटानुद्घाटय ? यथा ते शुद्धं सतीत्वं पश्यामः. एवं सहास्यव्यंग्योक्त्यापि तस्या अनुमति समवाप्य सुभद्रया स पटहः स्पृष्टः. ततः स्नातपरिहितनिर्मलवस्त्रा सुभद्रा कौतुकार्थिश्वश्रूप्रभृतिपौरनारीगणपरिवृता, सवि