Book Title: Quotations in Malaygiris Commentary on Nandisutra
Author(s): Jambuvijay
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/004355/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ INSTITUT FUR KULTUR- UND GEISTESGESCHICHTE ASIENS DER OSTERREICHISCHEN AKADEMIE DER WISSENSCHAFTEN INSTITUT FUR INDOLOGIE DER UNIVERSITAT WIEN WIENER ZEITSCHRIFT FUR DIE KUNDE SUDASIENS UND ARCHIV FUR INDISCHE PHILOSOPHIE Herausgegeben von ROQUE MESQUITA und CHLODWIG H. WERBA Band XXXVIII 1994 Sonderdruck B: :11:13 VERLAG DER OSTERREICHISCHEN AKADEMIE DER WISSENSCHAFTEN WIEN 1994 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ QUOTATIONS IN MALAYAGIRI'S COMMENTARY ON THE NANDISUTRA By Muni Jambuvijaya, Bhavnagar Gujarat श्रीशङ्केश्वरपार्श्वनाथाय नमः / श्री सद्गुरुभ्यो नमः। जैनागमस्य नन्दिसूत्रस्य आचार्यश्री मलयगिरिसूरिविरचितायां वृत्तौ उद्धृतानां दार्शनिकानां पाठानां मूलस्थानानि जैनागमग्रन्थेषु चतुर्विधा ग्रन्था उपलभ्यन्ते-द्रव्यानुयोगविषयका: 1, गणितानुयोगविषयकाः२, चरणकरणानुयोगविषयका: 3, धर्मकथानुयोगविषयकाश्चेति 4 / श्वेताम्बरजैनाभिमता आयारो(आचार:) 1, सूयगडो(सूत्रकृतम्) 2, ठाणं(स्थानम्) 3, समवाओ(समवायः) 4, वियाहपण्णत्ती(व्याख्याप्रज्ञप्तिः) 5, इत्यादयः 45 पञ्चचत्वारिंशत् आगमा: सुप्रसिद्धाः / एते च सर्वेऽपि अर्धमागध्यां भाषायां निबद्धाः / एतेषु केचिद् भगवतो महावीरस्य समये केचिच्च तदनन्तरनिकटसमये विरचिताः। विस्तरेण एतेषामागमानामर्थपरिज्ञानाय तदुत्तरकालीनैर्विभिन्नैराचार्यै: नियुक्ति-भाष्य-चूर्णिरूपा: व्याख्याग्रन्था विरचिताः / एते च सर्वेऽपि प्राकृतभाषायामेव सन्ति / . . ततः परं संस्कृतभाषाया यदा अधिकतरं प्राधान्यं जातं तदा संस्कृतभाषायामपि विभिन्नैराचार्यैर्वृत्तयो विरचयांचक्रिरे। किन्तु सर्वत्र मूला- गमविषयस्यैव प्राधान्यम् / दार्शनिकी चर्चा वैरल्येनैव (Hardly) तत्र दृश्यते / इदं तु आश्चर्यरूपम्- जैनागमेषु नन्दिसूत्रे 'मतिज्ञानम् 1, श्रुतज्ञानम् 2, अवधिज्ञानम् 3, मन:पर्यायज्ञानम् 4, केवलज्ञानम् 5' इति ज्ञानपञ्चकस्य विस्तरेण वर्णनमुपलभ्यते / अस्य जिनदासगणिमहत्तरविरचिता चूर्णिः आचार्यश्रीहरिभद्रसूरिविरचिता वृत्तिः, आचार्यश्रीमलयगिरिसूरिविरचिता वृत्तिश्च इति प्राचीनं व्याख्यात्रयमुपलभ्यते / आचार्यश्री मलयगिरिसूरिक्रमे द्वादशे शतक आसीत् / तेन विरचितायां वृत्तौ ज्ञानवर्णनस्य मुख्यत्वेऽपि महता १.इयं वृत्तिः आगमोदयसमित्या (SURAT) ईसवीये 1973 A.D. वर्षे प्रकाशिता / WZKS 38 (1994) 389-401 Page #4 -------------------------------------------------------------------------- ________________ 390 Muni JAMBOVIJAYA विस्तरेण दार्शनिकी चर्चा अपि दृश्यते / अस्यां चर्चायां प्रसङ्गमासाद्य अनेकेभ्यो ग्रन्थेभ्यः पाठा उद्धृताः / बौद्धाचार्येण प्रज्ञाकरगुप्तेन विरचितः धर्मकीर्तिविरचितप्रमाणवार्तिकस्य भाष्यरूपतया अलङ्कारभूतः वार्तिकालङ्कारः अत्र बहुश उपयुक्तः / एते सर्वेऽपि पाठा मूलस्थानेन सह अत्रोपदर्श्यन्ते - [नन्दिसूत्रस्य मलयगिरिविरचिताया वृत्तेः अत्र नं० म० इति संकेतः, पं० इति पंक्तेः संकेत:, पृ० इति पृष्ठस्य (Page) संकेत:, श्लो० इति श्लोकस्य संकेत:, A=Recto, B=Verso] नं० म० पृ० 3A, उक्तं च- “य: कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च / संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः // [शास्त्रवार्तासमुच्चये श्लो० 90] नं० म० पृ 3B, आह च प्रज्ञाकरगुप्तोऽपि- “रूपान्तरेण यदि तत् तदेवास्तीति मा रटी: / चैतन्यादन्यरूपस्य भावे तद् विद्यते कथम् ? // [वार्तिकालङ्कारे पृ० 128 श्लो० 692] अत्र वार्तिकालङ्कारे 'विज्ञानादन्यरूपस्य' इति पाठः। नं० म० पृ० 4A, उक्तं च- "काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धित: / चेतना च न तद्रूपा सा कथं तत्फलं भवेत् // [शास्त्रवार्तासमुच्चये श्लो० 43] नं० म० पृ० 4B, तदुक्तम्- “अन्तराभवदेहोऽपि सूक्ष्मत्वान्नोपलभ्यते / १.अयं वार्तिकालङ्कारः 'प्रमाणवार्तिकभाष्यम्' इति नाम्ना Kashi Prasad Jayaswal Research Institute. Patna इत्यत इसवीये 1953 वर्षे पण्डित राहल सांकत्यायनेन प्रकाशितः। नन्दीसूत्रस्य मलयगिरिसूरिविरचितायां वृत्तौं उद्धृताः पाठा वार्तिकालङ्कारस्य संशोधनेऽपि भृशमुपयोगिनो भविष्यन्ति इति विदांकुर्वन्तु सज्जनाः। वाराणसीस्थेन षड्दर्शनप्रकाशनसंस्थानेन स्वामियोगीन्द्रानन्देन संपादितो हिन्दीभाषायामनूदितश्च] अयं ग्रन्थः सम्प्रति प्रकाशयितुमारब्धोऽस्ति, तस्य च प्रथमो भागः प्रकाशितोऽप्यस्ति सम्प्रति 1991 A.D.वर्षे / 2. मूलस्थानानां गवेषणाय अस्माभिर्बहु प्रयतितम्, यानि यानि स्थानानि लब्धानि तानि [ ] एतादृशे चतुरस्र कोष्ठके दर्शितानि, यत्र मूलस्थानं न लब्धं तत्र कोष्ठकं रिक्तं स्थापितम् / 3. आचार्यश्रीहरिभद्रसूरिविरचितः शास्त्रवार्तासमुच्चयः गोडीजी जैन उपाश्रय Bombay इत्यादित: प्रकाशितः // Page #5 -------------------------------------------------------------------------- ________________ Quotations in Malayagiri's Commentary on the Nandisutra 391 निष्क्रामन् प्रविशन् वापि नाभावोऽनीक्षणादपि // " [वार्तिकालङ्कारे पृ० ८९श्लो०५१२] ___ अत्र प्रमाणवार्तिकालङ्कारे 'स्वच्छत्वान्नोपलभ्यते' इति पाठो मुद्रितः, किन्तु स: अशुद्ध एव। ____0 म० पृ० 4B, उक्तं च-“शरीराग्रहरूपस्य चेतस: सम्भवो यदा। जन्मादौ देहिनां दृष्टः किं न जन्मान्तरागतिः॥" [वार्तिकालङ्कारे पृ० 72 श्लो० 453] अत्र वार्तिकालङ्कारे 'किं न देहान्तरागतिः' इति पाठ उपलभ्यते / नं० म० पृ० 5A, आह च- "अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता / अध्यक्षस्यानुमानस्य विषयो विषयो नहि // [वार्तिकालङ्कारे पृ० 72 श्लो० 454] नं० म० पृ० 5A, उक्तं च- “आग्रहस्तावदभ्यासात् प्रवृत्त उपलभ्यते / अन्यत्राध्यक्षत: साक्षात् ततो देहेऽनुमा न किम् ? // " [वार्तिकालङ्कारे पृ० 72 श्लो० 455] _अत्र वार्तिकालङ्कारे शरीरेऽन्यत्र वाध्यक्षात् तत एवानुमा न किम्' इति पाठ उत्तरार्धे उपलभ्यते। नं० म० पृ० 5 B, उक्तं च- "अक्षव्यापारमाश्रित्य भवदक्षजमिष्यते / तद्व्यापारो न तत्रेति कथमक्षभवं भवेत् // " [वार्तिकालङ्कारे पृ० 65 श्लो० 424] नं० म० पृ० 6A, आह च-“चेतयन्तो न दृश्यन्ते केश-श्मश्रु-नखादय: / ततस्तेभ्यो मनोज्ञानं भवतीत्यतिसाहसम् // " [वार्तिकालङ्कारे पृ० 65 श्लो० 425] / अत्र वार्तिकालङ्कारे 'यदा केश-नखादयः / तदा तेभ्यो मनोज्ञानं भवतीति कथं स्थितिः।' इति पाठः // नं० म० पृ० 6B, “तेषां समत्वमारोग्यं क्षय-वृद्धी विपर्यये [वार्तिकालङ्कारे पृ०७४ पं० 10] 1. 'विपर्यय इति वचनात्' इति पाठो वार्तिकालङ्कारे नं० म० मध्ये च वर्तते, अतो. 'विपर्यये' इति 'विपर्ययः' इति चोभयथापि पाठोऽत्र संभवति // Page #6 -------------------------------------------------------------------------- ________________ 392 Muni JAMBOVIJAYA नं० म० पृ० 7 A, आह च- "दोषस्योपशमेऽप्यस्ति मरणं कस्यचित् पुनः / जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते // " [वार्तिकालङ्कारे पृ० 74 श्लो० 465] अत्र वार्तिकालङ्कारे 'स्याद् व्यवस्थितम्' इति पाठः / नं० म० पृ० 8 A, उक्तं च-"अविकृत्य हि यद् वस्तु य: पदार्थो विकार्यते / उपादानं न तत् तस्य युक्तं गो-गवयादिवत् // " [प्रमाणवार्तिके 1 / 63] नं० म० पृ० 9A, तदुक्तमन्यैरपि-"ज्ञापकत्वाद्धि सम्बन्ध: स्वात्मज्ञानमपेक्षते / तेनासौ विद्यमानोऽपि नागृहीतः प्रकाशकः // " [मीमांसाश्लोकवार्तिके सम्बन्धाक्षेपपरिहारे श्लो० 32] नं० म० पृ० 12 A, तदाह-“वक्तुरभिप्रेतं तु सूचयेयुः" [ ] तुलना-"नान्तरीयकताऽभावाच्छब्दानां वस्तुभिः सह / नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः॥" - प्रमाणवार्तिके 3 / 212 / यथोक्तम्-“वक्तुरभिप्रायं सूचयेयु: शब्दा:"-मोक्षाकरगुप्तविरचिता तर्कभाषा। नं० म० पृ० 15 B, आह च-“ऐश्वर्यस्य समग्रस्य रूपस्य यशस: श्रियः / वैराग्यस्याथ मोक्षस्य षण्णां भग इतीरणा // " [विष्णुपुराणे 6 / 5 / 74] नं० म० पृ० 16 A, उक्तं च स्तुतिकारेण– “सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति या: काश्चन सूक्तसम्पदः / तवैव ता: पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविपुषः // [सिद्धसेनदिवाकरविरचितायां द्वात्रिंशिकायाम् 1130] नं० म० पृ० 16A, “सदकारणवन्नित्यम्" [वैशेषिकसूत्रे 4 / 1 / 1] नं० म० पृ० 16A, यदाह धर्मकीर्ति:-"अपेक्षाया विशेषप्रतिलम्भलक्षणत्वात् / " [ ] नं०म० पृ० 17A, तथा च तद्ग्रन्थ:-"ऋग्गिरावृचश्चक्रुः, सामानि सामगिरौ” 1. प्रमाणवार्तिकस्य चतुर्णां परिच्छेदानां क्रमद्वयं वर्तते प्रमाणसिद्धिः 1, प्रत्यक्षम् 2, स्वार्थानुमानम् 3, परार्थानुमानम् 4 इत्येक: क्रमः / स्वार्थानुमानम् 1, प्रमाणसिद्धिः 2, प्रत्यक्षम् 3, परार्थानुमानम् 4 इत्यपरः क्रमः / तत्र प्रथम क्रममाश्रित्य प्रमाणवार्तिककारिकाणां क्रमाङ्कोऽत्रास्माभिर्निदिष्टःप्रथमोऽङ्कः परिच्छेदसूचकः, द्वितीयोऽङ्कः कारिकासूचकः / / Page #7 -------------------------------------------------------------------------- ________________ Quotations in Malayagiri's Commentary on the Nandisutra 393 नं० म० पृ० 19A, उक्तं च-“स्वयं रागादिमान् नार्थं वेति वेदस्य नान्यत: / न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः // तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ / खादेच्छ्वमांसमित्येष नार्थ इत्यत्र का प्रमा॥" [प्रमाणवार्तिके 3317-318] नं० म० पृ० 20A, उक्तं च-“स्वर्गोर्वश्यादिशब्दश्च दृष्टोऽरूढार्थवाचकः / शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना // " [प्रमाणवार्तिके 3 / 320] ____नं० म० पृ० 20B, उक्तं च-“ब्रह्मणोऽपत्यतामात्राद् ब्राह्मण्येऽतिप्रसज्यते / न कश्चिदब्रह्मतनोरुत्पन्न: क्वचिदिष्यते // " [वार्तिकालङ्कारे पृ० 11 श्लो० 67] नं० म० पृ० 21A, आह च-“शिष्टैः परिगृहीतत्वाच्चेदन्योन्यसमाश्रयः / वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रमा // " [वार्तिकालङ्कारे (?) पृ० 10] / तुलना-“सर्वागमसमानत्वाद् यागाद्यर्थक्रियात्मनः / न सर्वैः करणं तस्य तुल्यं वेदेऽपि किं न तत् // 57 // न चेदादृतता शिष्टैरित्यन्योन्यसमाश्रयः / वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रमा // 58 // " [वार्तिकालङ्कारे पृ० 10] नं० म० पृ० 21B, उक्तं च-“तीर्थप्रवर्तनफलं यत् प्रोक्तं तीर्थकरनाम / तस्योदयात् कृतार्थोऽप्यहँस्तीर्थं प्रवर्तयति // तत्स्वाभाव्यादेव प्रकाशयति भास्करो * यथा लोकम् / तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर एवम् // " [तत्त्वार्थकारिका 9, 10] नं० म० पृ० 22A, “न सत्ता सदन्तरमुपैति" [ ] इति वचनात् नं० म० पृ० 22A, उक्तं च-“अविकलकारणमेकं तदपरभावे यदा भवन्न भवेत् / भवति विरोध: स तयोः शीत-हुताश्मनोदृष्टः // [वार्तिकालंकारे पृ० 233 श्लो० 276] अत्र वार्तिकालंकारे यदपरभावे' इति पाठः। नं० म० पृ० 22A, आह च प्रज्ञाकरगुप्त:-“बाध्यबाधकभाव: क: स्यातां यद्युक्तिसंविदौ / तादृशोऽनुपलब्धेश्चेदुच्यतां सैव साधनम् // अनिश्चयकरं Page #8 -------------------------------------------------------------------------- ________________ 394 Muni JAMBOVIJAYA प्रोक्तमीदृक्षानुपलम्भनम् / तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ / / " [प्रमाणवार्तिके 2 / 94-95] वस्तुत इदं श्लोकद्वयं धर्मकीर्तिना विरचिते प्रमाणवार्तिके वर्तते / 'प्रज्ञाकरगुप्त'नाम्ना कथं निर्दिष्टं मलयगिरिसूरिभिरिति न ज्ञायते // नं०म० पृ० 23A, उक्तं चान्यैरपि-"न चास्पष्टावभासित्वादेव शब्दः प्रवर्तते / प्रत्यक्षदृष्टे स्तम्भादावपि शब्दप्रवर्तनात् // अयं स्तम्भ इति प्राप्तमन्यथाऽस्याऽप्रवर्तनम् / न चास्पष्टावभासित्वमत्र ज्ञानस्य लक्ष्यते॥ तथान्यत्रापि शब्दानां प्रवृत्तिर्न विरुध्यते।" [वार्तिकालंकारे पृ० 117 श्लो० 631-633] “उक्तं च-“सर्वासवविकल्पस्य नास्त्यध्यक्षाद् विवेकिता / न चास्पष्टावभासित्वादेव शब्द: प्रवर्तते // 631 // ... ...632 // ... ...प्रवृत्तिर्न निवार्यते // 633 // " इत्येवं वार्तिकालङ्कारे श्लोकत्रयमत्र दृश्यते // नं० म० पृ० 24B, उक्तं च-“प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते / वस्त्वसत्तावबोधार्थं तत्राभावप्रमाणता // " [मीमांसाश्लोकवार्तिके, अभावनिरूपणे] अत्र मीमांसाश्लोकवार्तिके 'वस्तुसत्तावबोधार्थम्' इति पाठः // नं० म० पृ० 24B, आह च-"अशुच्यादिरसास्वादप्रसङ्गश्चानिवारितः // 359 / / " [वार्तिकालङ्कारे पृ० 50 श्लो० 359] अत्र वार्तिकालङ्कारे 'स्वादसङ्गमश्चानिवारितः' इति पाठः॥ नं० म० पृ० 25A, उक्तं च-"क्रमेण वेदनं कथम्" [ तुलना-"क्रमेण वेदनेऽनादिवस्तुनो वेदनं कथम्" [वार्तिकालङ्कारे पृ० 330 श्लो० 578] नं० म० पृ० 25B, यदुच्यते भट्टेन-“सर्वज्ञोऽसाविति ह्येतत् तत्कालेऽपि बुभुत्सुभिः / तज्ज्ञान ज्ञेयविज्ञानरहितैर्गम्यते कथम् // " [मीमांसाश्लोकवार्तिके सूत्र 2, श्लो० 134] भट्टोऽयं कुमारिलभट्टः। नं० म० पृ० 25B, आह च-“एकदेशपरिज्ञानं कस्य नाम न विद्यते / न Page #9 -------------------------------------------------------------------------- ________________ Quotations in Malayagiri's Commentary on the Nandisutra 395 ह्येकं नास्ति सत्यार्थं पुरुषे बहुजल्पिनि // " [वार्तिकालङ्कारे पृ० 51, श्लो० 367] अत्र वार्तिकालङ्कारे 'बहुकल्पके' इति पाठः / नं० म० पृ० 26B, उक्तं च-“शास्त्राद्यभ्यासत: शास्त्रप्रभृत्येवावगच्छतः / साकल्यवेदनं तस्य कुत एवागमिष्यति // " [वार्तिकालङ्कारे पृ० 51, श्लो० 363] अत्र वार्तिकोलङ्कारे 'प्रभृत्येवावगच्छतु' इति पाठः // नं० म० पृ० 27B, उक्तं च-"गरुत्मच्छाखामृगयोर्लङ्घनाभ्याससम्भवे / समानेऽपि समानत्वं लङ्घनस्य न विद्यते // " [वार्तिकालङ्कारे पृ०१०७, श्लो० 586] अत्र वार्तिकालङ्कारे 'भ्याससंगमे' इति पाठः / नं० म० पृ० 27B, उक्तं च-“स्थित: शीतांशुवज्जीव: प्रकृत्या भावशुद्धया / चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् // " [ नं० म० पृ० 28A, उक्तं च-“न चागमेन यदसौ विध्यादि- प्रतिपादक: / अप्रत्यक्षत्वतो नैवोपमानस्यापि संभवः // " [शास्त्रवार्तासमुच्चये श्लो० 582] 'नैवोपमानेनापि गम्यते' इति शास्त्रवार्तासमुच्चये पाठः // नं० म० पृ० 28B, “विरुद्धोऽसति बाधके" [ ] इति वचनात् / नं०म० पृ० 29A, आह च प्रज्ञाकरगुप्तोऽपि-“यदि विशेषविरुद्धतया क्षतिर्ननु न हेतुरिहास्ति न दूषितः / निखिलहेतुपराक्रमरोधिनी न हि न सा सकलेन विरुद्धता // " [वार्तिकालङ्कारे पृ० 386 श्लो० 949] नं० म० पृ० 29B, उक्तं च-“तटस्थत्वेन वेद्यत्वे तत्त्वेनावेदनं भवेत् / तदात्मना तु वेद्यत्वेऽशुच्यास्वादः प्रसज्यते // " [वार्तिकालङ्कारे पृ० 330 श्लो० 572] वार्तिकालङ्कारे 'रागितैव प्रसज्यते' इति पाठः // नं० म० पृ० 29B, तथा चायमर्थोऽन्यैरप्युक्त:-"यथा सकलशास्त्रार्थ: स्वभ्यस्त: प्रतिभासते / मनस्येकक्षणेनैव तथानन्तादिवेदनम् // " [वार्तिकालङ्कारे पृ० 330 श्लो० 579] Page #10 -------------------------------------------------------------------------- ________________ 396 Muni JAMBOVIJAYA नं० म० पृ० 30A, आह च-"अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा / / ये भावान् वचनं तेषां नानुमानेन बाध्यते // " [वाक्यपदीये 1138] नं० म० पृ० 30A, उक्तं च-"जैनेश्वरे हि वचसि प्रमासंवाद ईक्ष्यते। प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः // [ ] तुलना-“ताथागते हि वचसि प्रमासंवाद ईक्ष्यते / प्रमाणबाधा त्वन्येषामतो द्रष्टा तथागतः // " [वार्तिकालङ्कारे पृ० 328 श्लो० 532] नं० म० पृ० 30A, तथा चोक्तम्-“समानविषया यस्माद् बाध्य-बाधकसंस्थितिः / अतीन्द्रिये च संसारिप्रमाणं न प्रवर्तते // [वार्तिकालङ्कारे पृ० 328 श्लो० 533] 'बाधकतास्थितिः' इति वार्तिकालङ्कारे पाठः / नं० म० पृ० 30B, आह च-“वीतरागस्य न सुखं योषिदालिङ्गनादिजम् / वीतद्वेषस्य च कुत: शत्रुसेनाविमर्दजम् / / वीतमोहस्य न सुखमात्मीयाभिनिवेशजम् / ततः किं तादृशा तेन कृत्यं मोक्षेण जन्मिनाम् // " [वार्तिकालङ्कारे पृ० 329 श्लो० 560-561] अत्र वार्तिकालङ्कारे 'न वीतरागस्य' 'वीतद्वेषस्य तु' इति पाठः। नं० म० पृ० 33B, उक्तं च-“रूपातिशयपाशेन विवशीकृतमानसाः / स्वां योषितं परित्यज्य रमन्ते योषिदन्तरे // " [वार्तिकालङ्कारे पृ० 123 श्लो० 653] अत्र वार्तिकालङ्कारे 'योषितं तिरस्कृत्य कामिनो' इति पाठः / नं० म० पृ० 35B, आह च-“य: पश्यत्यात्मानं तत्रास्याहमिति शाश्वत: स्नेहः / स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते // गुणदर्शी परितुष्यन् ममेति तत्साधनान्युपादत्ते / तेनात्माभिनिवेशो यावत् तावत् स संसारे // " [प्रमाणवार्तिके 2 / 219-220] नं० म० पृ० 36B, उक्तं चान्यैरपि-“अवस्थिता हि वास्यन्ते भावा भावैरवस्थितैः।" [मीमांसाश्लोकवार्तिके निरालम्बनवादे श्लो० 185] वार्तिकालङ्कारेऽपि उद्धृतमिदम् पृ० 358 श्लो० 663] Page #11 -------------------------------------------------------------------------- ________________ Quotations in Malayagiri's Commentary on the Nandisutra 397 नं० म० पृ० 36B, उक्तं च- वास्यवासकयोश्चैवमसाहित्यान्न वासना / पूर्वक्षणैरनुत्पन्नो वास्यते नोत्तर:क्षणः॥ [मीमांसाश्लोकवार्तिके निरालम्बनवादे श्लो० 182] नं० म० पृ० 37A, 215 A, “भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते " [ "क्षणिका: सर्वसंस्कारा अस्थिराणां कुतः क्रिया / भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते / " इति सम्पूर्णा कारिका। नं० म० पृ० 37B, “नाकारणं विषयः।"[ ] इति वचनात्। नं०म० पृ०३७B, आह च भवदाचार्योऽपि धर्मकीर्तिर्ज्ञाननयप्रस्थाने-“सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत् / साम्ये केनचिदंशेन सर्वं सर्वस्य वेदनम् // " [प्रमाणवार्तिक 2 / 435] नं० म० पृ० 38A, आह च प्रज्ञाकरगुप्तः -“वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः" [वार्तिकालङ्कारे पृ० 356 पं०६] नं० म० पृ० 39A, यदुच्यते प्रज्ञाकरगुप्तेन -"दीर्घकालसुखादृष्टाविच्छा तत्र कथं भवेत् / " [वार्तिकालङ्कारे पृ० 153 श्लो० 833] 'दृष्टेरिच्छा' इति वार्तिकालङ्कारे पाठः। नं० म० पृ० 40A, तथाहि-“शुद्धचैतन्यरूपोऽयं पुरुषः परमार्थतः / प्रकृत्यन्तरमज्ञात्वा मोहात् संसारमाश्रितः // " [वार्तिकालङ्कारे पृ० 156 श्लो० 846] 'शुद्धबोधस्वभावोऽयं' इति वार्तिकालङ्कारे पाठः। नं० म० पृ० 40B, आह च-“अभिलाषस्मरणयोः प्रकृतेरेव वृत्तितः / अभिलाषाच्च तद्वृत्तिरित्यन्योन्यसमाश्रयः // " [वार्तिकालङ्कारे पृ० 156 श्लो० 851] नं० म० पृ० 66B, उक्तं च-“मलविद्धमणिव्यक्तिर्यथाऽनेकप्रकारत: / कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः // " [अकलङ्कविरचिते लघीयत्रये श्लो० 57] Page #12 -------------------------------------------------------------------------- ________________ 398 Muni JAMBOVIJAYA नं० म० पृ० 66B, तथा चोक्तम्-“यथा जात्यस्य रत्नस्य नि:शेषमलहानित: / स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः // "[ ] नं० म० पृ० 74B, अकलङ्कोऽप्याह-“द्विविधं प्रत्यक्षज्ञानम्- सांव्यवहारिक मुख्यं च / तत्र सांव्यवहारिकमिन्द्रियानिन्द्रियप्रत्यक्षम्, मुख्यमतीन्द्रियज्ञानम् / " [लघीयत्रये श्लो० 4 स्वोपज्ञविवृतौ] नं० म० पृ० 135A, तथा चोक्तम्-“नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् / " [प्रमाणवार्तिके 3 / 34] नं० म० पृ० 165A, यत उक्तम्-“अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् / " [ ] "नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम्" इत्युत्तरार्धम् / नं० म० पृ० 165A, तथा चोक्तम्-“य: साध्यस्योपमाभूत: स दृष्टान्त इति कथ्यते।"[ नं० म० पृ० 171A, शङ्करस्वामी प्राह "अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः सह समाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणव: सूक्ष्मत्वान्नोपलभ्यन्ते" [ ] नं० म० पृ० 171B, तथा च तद्ग्रन्थ:-"चक्षुः श्रोत्रं मनोऽप्राप्यकारि नं० म० पृ० 173A, “रूपस्पर्शादिसन्निवेशो मूर्तिः" [ ] इति वचनप्रामाण्यात् / नं० म० पृ० 173B, उक्तं च-“यथा च प्रेर्यते तूलमाकाशे मातरिश्वना / तथा शब्दोऽपि किं वायोः प्रतीपं कोऽपि शब्दवित् // " [वार्तिकालङ्कारे पृ० 512 श्लो० 120] वार्तिकालङ्कारे प्रतीपं शब्दवित् क्वचित्' इति पाठः // 1. “प्रत्यक्षं विशदज्ञानं मुख्य-संव्यवहारतः / " इति कारिकायाः स्वोपज्ञविवृतौ पाठोऽयमर्थतो विद्यते // 2. “अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः / " इति उत्तरार्धम् / / Page #13 -------------------------------------------------------------------------- ________________ Quotations in Malayagiri's Commentary on the Nandisutra 399 नं० म० पृ० 192A, "ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्॥" नं०म० पृ० 192A, तथा चाह स्वयंभू:-“देवागमनभोयान-चामरादिविभूतयः / मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् // " [आप्तमीमांसा श्लो० 1] नं० म० पृ० 193A, "ऋषय: संयतात्मानः फलमूलानिलाशनाः / तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् // अतीतानागतान् भावान् वर्तमानांश्च भारत / ज्ञानालोकेन पश्यन्ति त्यक्तसङ्गा जितेन्द्रियाः // "[ ] नं०म० पृ० 213B, तथाचोक्तम्"न कालव्यतिरेकेण गर्भबालशुभादिकम् / यत् किंचिज्जायते लोके तदसौ कारणं किल // 1 // किं च कालादृते नैव मुद्गपक्तिरपीक्ष्यते / स्थाल्यादिसन्निधानेऽपि तत: कालादसौ मता // 2 // कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया / परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ||3|| काल: पचति भूतानि काल: संहरति प्रजाः / काल: सुप्तेषु जागर्ति कालो हि दुरतिक्रमः // 4 // "[ ] नं० म० पृ० 214A, “अन्यो(ज्ञो) जन्तुरनीशोऽयमात्मनः सुख-दु:खयोः / ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव // " [महाभारते वनपर्वणि 30 / 28] नं० म० पृ० 214B, “नियतेनैव रूपेण सर्वे भावा भवन्ति यत् / ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः // 1 // यद् यदैव यतो यावत् तत् तदैव ततस्तथा / नियतं जायते न्यायात् क एनां बाधितुं क्षमः / / 2 // " [शास्त्रवार्तासमुच्चये श्लो० 173-174] नं० म० पृ० 218A, तथा चोक्तम्-“पूर्वकालादियोगी य: स पूर्वाद्यपदेशभाक् / पूर्वापरत्वं तस्यापि स्वरूपादेव नान्यतः // " [वार्तिकालङ्कारे पृ० 476 श्लो० 30] 1. श्लोकचतुष्टयमिदं शास्त्रवार्तासमुच्चये दृश्यते, श्लो० 165-168 / / Page #14 -------------------------------------------------------------------------- ________________ 400 Muni JAMBOVIJAYA नं० म० पृ० 218B, उक्तं च-“एकत्वव्यापितायां हि पूर्वादित्वं कथं भवेत् / सहचारिवशात् तच्चेदन्योन्याश्रयतागमः // सहचारिणां हि पूर्वत्वं पूर्वकालसमागमात् / कालस्य पूर्वादित्वं च सहचार्यवियोगतः // " [वार्तिकालङ्कारे पृ० 476 श्लो० 31] 'नित्यत्वव्यापितायां.. सहचारितथात्वाच्चेद०' इति वार्तिकालङ्कारे पाठः। नं० म० पृ० 220A, उक्तं च-"अशक्त्यान्येश्वराः पापप्रतिषेधं न कुर्वते / न त्वत्यन्तमशक्तेभ्यो व्यावृत्तमतिरिष्यते // अथाप्यशक्त एवासौ तथा सति परिस्फुटम् / नेश्वरेण कृतं सर्वमिति वक्तव्यमुच्चकैः // पापवत् स्वार्थकारित्वाद् धर्मादिरपि किं ततः।" [वार्तिकालङ्कारे पृ० 37 श्लो० 257-258] वार्तिकालङ्कारे 'अथाशक्त एवासौ तथा सति नेश्वरेण' इति खण्डितो गद्यरूप: पाठ उपलभ्यते। नं० म० पृ० 220B, उक्तं च-"क्रीडार्था तस्य वृत्तिश्चेत् प्रेक्षापूर्वक्रिया कुत: / एकस्य क्षणिका तृप्तिरन्य: प्राणैर्वियुज्यते // " [वार्तिकालङ्कारे पृ० 37 श्लो० 261] नं० म० पृ० 220B, “इदमेवं न वेत्येतत् कस्य पर्यनुयोज्यताम् / अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम् // " [वार्तिकालङ्कारे पृ० 35 श्लो० 248] पर्यनुयोज्यताम्' इति वार्तिकालङ्कारे पाठः।। नं० म० पृ० 220B, “स्वभावेऽध्यक्षत: सिद्धे यदि पर्यनुयुज्यते / तत्रेदमुत्तरं वाच्यं न दृष्टेऽनुपपन्नता // [वार्तिकालङ्कारे पृ० 35 श्लो० 249] 'सिद्धे परैः पर्यनुयुज्यते इति वार्तिकालङ्कारे पाठः / नं० म० पृ० 221A, उक्तं च-“यत् किंचिदात्माभिमतं विधाय निरुत्तरस्तत्र कृतः परेण / वस्तुस्वभावैरिति वाच्यमित्थं तदोत्तरं स्याद् विजयी समस्तः // " [वार्तिकालङ्कारे पृ० 35 पं० 14] __रिह वाच्यमित्थं तथोत्तर' इति वार्तिकालङ्कारे पाठः / श्लोकोऽयं भ्रान्त्या गद्यरूपेण वार्तिकालङ्कारेऽशुद्धः मुद्रितः / Page #15 -------------------------------------------------------------------------- ________________ Quotations in Malayagiri's Commentary on the Nandisatra 401 नं० म० पृ० 221A, उक्तं च-“शास्त्रान्तराणि सर्वाणि यदीश्वरविकल्पत: / सत्यासत्योपदेशस्य प्रमाणं दानतः कथम् // " [वार्तिकालङ्कारे पृ० 37 श्लो० 262] नं० म० पृ० 221A, तथा चोक्तम्-“न न बाध्यत इत्येवमनुमानं प्रवर्तते / सम्बन्धदर्शनात् तस्य प्रवर्तनमिहेष्यते // " [वार्तिकालङ्कारे पृ० 43 श्लो९० 327] 'बाधत ... मितीरितम्' इति वार्तिकालङ्कारे पाठः / नं० म० पृ० 222A, यदुक्तम्-"नादृष्टपूर्वसर्पस्य रज्ज्वां सर्पमति: क्वचित / तत: पूर्वानुसारित्वाद् भ्रान्तिरभ्रान्तिपूर्विका // " [वार्तिकालङ्कारे पृ० 384 श्लो० 926] 'पूर्वदृष्टयनुसारित्वान्न हेतुर्वासना कथम्' इति वार्तिकालङ्कारे पाठः। नं० म० पृ० 223A, उक्तं च-"हेतुताऽन्वयपूर्वेण व्यतिरेकेण सिध्यति / नित्यस्याव्यतिरेकस्य कुतो हेतुत्वसम्भवः // " [वार्तिकालङ्कारे पृ० 33 श्लो० 227] 'सम्बन्धोऽन्वय ... कुतः सम्बन्धसम्भव:' इति वार्तिकालङ्कारे पाठः / नं० म० पृ० 223A, “विशेषणं विना यस्मान्न तुल्यानां विशिष्टता / " [शास्त्रवार्तासमुच्चये श्लो० 54] / ईदृशाः स्तोका बहवो वा उद्धृता दार्शनिका: पाठा अनेकेषु जैनग्रन्थेषु उपलभ्यन्ते / तेषां गवेषणं परिशीलनं च विदुषामत्यन्तमुपयोगि आनन्दप्रदं च भविष्यतीत्याशास्तेP.O.पंचासर पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकार(Via-विरमगाम) पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यगुजरात राज्य ,INDIA पूज्यपादगुरुदेव मुनिराजश्री भुवनविजयान्तेवासी PIN- 382750 मुनि जम्बूविजयः विक्रमसंवत् 2449 चैत्री पूर्णिमा, 6-3-93 Page #16 -------------------------------------------------------------------------- ________________ 402 ATHA SRUTAVEGAKRTA SODHANIKA prsthe sodhaniyah pathah suddhah pathah panktih 1,17 1,25 mula-gamao vrttih agamo mulagamao vrttir agamo 2,26f. cayah godijio ocayo godiji 3,4 sah asuddha eva so 'suddha eva 4,6 4,12 4,27 pramanavartike 1/63 pramanavartike 3/212 prathamo 'nka pramanavarttike 1/61(= 63) pramanavarttike 3/213 prathamo nikah 5,1 veti vetti 6,1-2 pramanavartike 2/94-95 pramanavarttike 2/93-94 [atra 'idrk kvanupalambhanam tatratyanta" iti pathah 1] abhava pramanyavade slodeg 1 rasamvadasao 6,14 abhavanirupane 6,18 svadasao 7,13 vidhyadi-pratipadakah vidhyadipratipada kah 8,22-23 pramanavartike 2/219220 pramanavartti ke 1/217-219 (= 219-221) (atra 'tatraham iti... |1 ... dosam sthiri kurute ... paritrsyan' iti pathah 1] sloo 662 8,26 slodeg 663 10,7 3/34 3/35 11,18 svabhram eva soabhram ema cu (etasya astadasayah pankter adhastad idam vakyam opyatam 1) atra mahabharate (punyakhyapattanaprakasita aranyakaparvani 3127] 'svargam narakam eva ca Il'iti pathah | (iti | 12,4 12,5 elo 31 nityatvavyapitayam... sahao slodeg 31-32 nityatavyapita ya... katham tayoh sahao na cety pamo 14-16 na vety 12,15 12,24 pamo 14 13,25 2449 2049 Page #17 -------------------------------------------------------------------------- ________________ INHALT ***... voi Prastavana ......... Tabula gratulatoria .... Verzeichnis der Schriften Gerhard Oberhammers .............. xi HARRY FALK: Die Kosmogonie von RV X 72 ...... HENK W. BODEWITZ: Life After Death in the Rgvedasamhita .... 23 LAMBERT SCHMITHAUSEN: Zur Textgeschichte der pancagnividya .. 43 JOACHIM FRIEDRICH SPROCKHOFF: Zur Weihe des Asketen. Eine Skizze .............................................. 61 CLAUS OETKE: Die ,,unbeantworteten Fragen" und das Schweigen des Buddha ................ ........ 85 OSKAR VON HINUBER: Die neun Angas. Ein fruher Versuch zur Einteilung buddhistischer Texte .............. 121 TILMANN VETTER: Zwei schwierige Stellen im Mahanidanasutta. Zur Qualitat der Uberlieferung im Pali-Kanon ............ 137 ADELHEID METTE: apratisthanam - der ausserste Ort ........... 161 MANFRED MAYRHYOFER: Zu Prakrit mahana- ,Brahmane ....... 169 ALBRECHT WEZLER: Once again on Patanjali's Definition of a .. Word (Studies in Patanjali's Mahabhasya V) ............. 173 UTZ PODZEIT: Bemerkungen zum ,,Sinn" des Namens Vasudeva . 191 GUDRUN BUHNEMANN: Two forms of Ganapati in the Indo Tibetan Buddhist Tradition ....... Max NIHOM: Sadhanamala 256 - A Pasupata-Bauddha Tantristic .! Sadhana. ................ ....... 213 GEORGE CHEMPARATHY: Some Observations on Dayananda Sarasvati's Conception of the Veda ... .... 231 KAMIL V. ZVELEBIL: Kanaki Puranam - A Nineteenth Century Poetic Biography of a Ceylonese Devadasi................ 251 ........ 201 An Archiv fur indische Philosophie SIEGFRIED LIENHARD: Amaru - erotisch und philosophierend. ... 267 WALTER SLAJE: Die Angst der Yogis vor der Versenkung....... 273 Asko PARPOLA: On the Formation of the Mimamsa and the Problems Concerning Jaimini with particular reference to the teacher quotations and the Vedic schools (Part II) ..... 293 JOHANNES BRONKHORST: The Qualities of Sankhya ............ 309 Page #18 -------------------------------------------------------------------------- ________________ Inhalt ........ 337 ....... 379 MINORU HARA: Pasupata Studies II ...... .................. 323 ERNST PRETS: The Structure of sadhana in the Abhidharmasam uccaya ................ MICHAEL TORSTEN MUCH: Uddyotakaras Kritik der apoha-Lehre (Nyayavarttika ad NS II 2,66) ......................... 351 ELI FRANCO: alayavijnana and klistamanas in the Pramanavarttika?................... .............. 367 ERNST STEINKELLNER: Sakyabuddhi's Commentary on Pramana varttika I 3 and its Vrtti. Muni JAMBOVIJAYA: Quotations in Malayagiri's Commentary on the Nandisutra ...................................... 389 DAVID SEYFORT RUEGG: La notion du voyant et du <> et la question de l'autorite epistemique epistemique ......... 403 PIERRE-SYLVAIN FILLIOZAT: The Concept of adhvan in Saivasid dhanta ........ .....: 421 TEUN GOUDRIAAN: Rejection of Duality. On the Atman Concep tion in the Visnupurana ............................... 435 ROQUE MESQUITA: Die Idee der Erlosung bei Kumarilabhatta ... 451 KIYOTAKA YOSHIMIZU: Der Geltungsbereich der vedischen Wei- . sung niyoga) bei den Prabhakaras ....................... 485 IRENE WICHER: svargakama .... ....... 509