________________ Quotations in Malayagiri's Commentary on the Nandisutra 391 निष्क्रामन् प्रविशन् वापि नाभावोऽनीक्षणादपि // " [वार्तिकालङ्कारे पृ० ८९श्लो०५१२] ___ अत्र प्रमाणवार्तिकालङ्कारे 'स्वच्छत्वान्नोपलभ्यते' इति पाठो मुद्रितः, किन्तु स: अशुद्ध एव। ____0 म० पृ० 4B, उक्तं च-“शरीराग्रहरूपस्य चेतस: सम्भवो यदा। जन्मादौ देहिनां दृष्टः किं न जन्मान्तरागतिः॥" [वार्तिकालङ्कारे पृ० 72 श्लो० 453] अत्र वार्तिकालङ्कारे 'किं न देहान्तरागतिः' इति पाठ उपलभ्यते / नं० म० पृ० 5A, आह च- "अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता / अध्यक्षस्यानुमानस्य विषयो विषयो नहि // [वार्तिकालङ्कारे पृ० 72 श्लो० 454] नं० म० पृ० 5A, उक्तं च- “आग्रहस्तावदभ्यासात् प्रवृत्त उपलभ्यते / अन्यत्राध्यक्षत: साक्षात् ततो देहेऽनुमा न किम् ? // " [वार्तिकालङ्कारे पृ० 72 श्लो० 455] _अत्र वार्तिकालङ्कारे शरीरेऽन्यत्र वाध्यक्षात् तत एवानुमा न किम्' इति पाठ उत्तरार्धे उपलभ्यते। नं० म० पृ० 5 B, उक्तं च- "अक्षव्यापारमाश्रित्य भवदक्षजमिष्यते / तद्व्यापारो न तत्रेति कथमक्षभवं भवेत् // " [वार्तिकालङ्कारे पृ० 65 श्लो० 424] नं० म० पृ० 6A, आह च-“चेतयन्तो न दृश्यन्ते केश-श्मश्रु-नखादय: / ततस्तेभ्यो मनोज्ञानं भवतीत्यतिसाहसम् // " [वार्तिकालङ्कारे पृ० 65 श्लो० 425] / अत्र वार्तिकालङ्कारे 'यदा केश-नखादयः / तदा तेभ्यो मनोज्ञानं भवतीति कथं स्थितिः।' इति पाठः // नं० म० पृ० 6B, “तेषां समत्वमारोग्यं क्षय-वृद्धी विपर्यये [वार्तिकालङ्कारे पृ०७४ पं० 10] 1. 'विपर्यय इति वचनात्' इति पाठो वार्तिकालङ्कारे नं० म० मध्ये च वर्तते, अतो. 'विपर्यये' इति 'विपर्ययः' इति चोभयथापि पाठोऽत्र संभवति //