________________ 392 Muni JAMBOVIJAYA नं० म० पृ० 7 A, आह च- "दोषस्योपशमेऽप्यस्ति मरणं कस्यचित् पुनः / जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते // " [वार्तिकालङ्कारे पृ० 74 श्लो० 465] अत्र वार्तिकालङ्कारे 'स्याद् व्यवस्थितम्' इति पाठः / नं० म० पृ० 8 A, उक्तं च-"अविकृत्य हि यद् वस्तु य: पदार्थो विकार्यते / उपादानं न तत् तस्य युक्तं गो-गवयादिवत् // " [प्रमाणवार्तिके 1 / 63] नं० म० पृ० 9A, तदुक्तमन्यैरपि-"ज्ञापकत्वाद्धि सम्बन्ध: स्वात्मज्ञानमपेक्षते / तेनासौ विद्यमानोऽपि नागृहीतः प्रकाशकः // " [मीमांसाश्लोकवार्तिके सम्बन्धाक्षेपपरिहारे श्लो० 32] नं० म० पृ० 12 A, तदाह-“वक्तुरभिप्रेतं तु सूचयेयुः" [ ] तुलना-"नान्तरीयकताऽभावाच्छब्दानां वस्तुभिः सह / नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः॥" - प्रमाणवार्तिके 3 / 212 / यथोक्तम्-“वक्तुरभिप्रायं सूचयेयु: शब्दा:"-मोक्षाकरगुप्तविरचिता तर्कभाषा। नं० म० पृ० 15 B, आह च-“ऐश्वर्यस्य समग्रस्य रूपस्य यशस: श्रियः / वैराग्यस्याथ मोक्षस्य षण्णां भग इतीरणा // " [विष्णुपुराणे 6 / 5 / 74] नं० म० पृ० 16 A, उक्तं च स्तुतिकारेण– “सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति या: काश्चन सूक्तसम्पदः / तवैव ता: पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविपुषः // [सिद्धसेनदिवाकरविरचितायां द्वात्रिंशिकायाम् 1130] नं० म० पृ० 16A, “सदकारणवन्नित्यम्" [वैशेषिकसूत्रे 4 / 1 / 1] नं० म० पृ० 16A, यदाह धर्मकीर्ति:-"अपेक्षाया विशेषप्रतिलम्भलक्षणत्वात् / " [ ] नं०म० पृ० 17A, तथा च तद्ग्रन्थ:-"ऋग्गिरावृचश्चक्रुः, सामानि सामगिरौ” 1. प्रमाणवार्तिकस्य चतुर्णां परिच्छेदानां क्रमद्वयं वर्तते प्रमाणसिद्धिः 1, प्रत्यक्षम् 2, स्वार्थानुमानम् 3, परार्थानुमानम् 4 इत्येक: क्रमः / स्वार्थानुमानम् 1, प्रमाणसिद्धिः 2, प्रत्यक्षम् 3, परार्थानुमानम् 4 इत्यपरः क्रमः / तत्र प्रथम क्रममाश्रित्य प्रमाणवार्तिककारिकाणां क्रमाङ्कोऽत्रास्माभिर्निदिष्टःप्रथमोऽङ्कः परिच्छेदसूचकः, द्वितीयोऽङ्कः कारिकासूचकः / /